SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ लात् ॥ ३१ ॥ तच्च सोपानमेकैकमेकहस्तपृथूच्छ्रितम् । भूमेर्द्धनुःसहस्र द्वे, साढ़े तेषां समुच्छ्रयः ॥ ३२ ॥ तस्य। 18 वप्रस्य भित्तिः स्यात्पञ्चचापशतोच्छ्रिता । द्वात्रिंशदङ्गुलोपेतत्रयस्त्रिंशद्धनुःपृथुः॥ ३३ ॥ शोभन्ते कपिशीर्षाणि, तस्था भित्तेरुपर्यथ । निर्धातखर्णसारेण, रचितानि स्फुरद्रुचा ॥ ३४॥ तस्मिन् वने च चत्वारि, द्वाराणि रचयन्ति ते । नानारत्नमयान्युच्चैारशाखादिमन्ति च ॥ ३५ ॥ प्रतिद्वारं तोरणानां, त्रयं मणिमयं सुराः। पाश्चालिकामणिच्छत्रमकरध्वजमशुलम् ॥३६॥ ध्वजांश्च मङ्गलान्यष्टी, पुष्पदाम्नां तथाऽऽवली। रचयन्ति प्रतिद्वारं, कलशान् वेदिकां तथा ॥ ३७॥ युग्मं ॥ कृष्णागुरुतुरुष्कादिधूपान् दिव्यान् समन्ततः । वितन्वतीधूपघटीस्तन्वते निर्जरा बहः॥३८॥ कोणे कोणे च वप्रस्य, तस्य खाददकाञ्चिता । एकैका क्रियते वापी, मणिसोपान-1 भृत् सुरैः ॥ ३९ ॥ प्राच्ये द्वारे द्वारपालः, सुरः स्यात्तस्य तुम्बरुः । दाक्षिणात्ये च खट्वाङ्गी, स्यात्कपाली च । पश्चिमे ॥ ४०॥ जटामुकुटधारी स्यादुदीच्यद्वारपालकः। तुम्बुरुनाम देवश्च, प्रतीहारोऽहंतां भवेत् ॥४१॥ अथ तस्याधवप्रस्य, भवेन्मध्ये समन्ततः। प्रतरः समभूम्यात्मा, पश्चाशच्चापविस्तृतः॥४२॥ तिष्ठन्त्यत्र च|१० यानानि, देवतिर्यग्नरा अपि । स्युः प्रत्येकं विमिश्रास्ते, प्रवेशनिर्गमोन्मुखाः ॥४३॥ ततः प्रतरसंपूत्तौं, सोपा-1 नानामुपक्रमः । भवेद् द्वितीयवपस्य, हस्तोच्चत्वायतिस्पृशाम् ॥ ४४ ॥ पञ्चानामिति सोपानसहस्राणामतिक्रमे ।। प्राकारः सुन्दराकारो, द्वितीयः प्राप्यते जनैः ॥ ४५ ॥ जात्यस्वर्णमयं तं च, कुर्युर्योतिष्कनाकिनः । नानारत्न-II मयैर्दीप्रैः, कपिशी(रलङ्कृतम् ॥४६॥ भित्त्युच्चत्वपृथुत्वादि, ज्ञेयमस्याद्यवप्रवत् । ज्ञेया चतुर्णा द्वाराणां, रचना-18 १४ Dheer M Jain Education ainelibrary.org For Private Personal Use Only a l
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy