________________
लोकतो ज्ञेयेति। अव्यथं चाप्यसंमोहो, विवेकः स्यात्तथा परः। व्युत्सर्गश्च भवेच्छुक्लध्यानचिह्नचतुष्टयम् ॥३॥ यद्देवाग्रुपसर्गेभ्यो, भयं तत्कथ्यते व्यथा । तदभावोऽव्यथं शुक्लध्यानलक्षणमादिमम् ॥ ४॥ देवादिमायालसस्य, सूक्ष्मार्थजनितस्य वा । संमोहस्येह मौढ्यस्याभावोऽसंमोह इष्यते ॥५॥ जीवस्य देहात्सर्वेभ्यः, संयोगेभ्यश्च शुद्धया । भिन्नत्वभावनं बुद्ध्या, स विवेको विवेचनात् ॥ ६॥ यन्निःसङ्गतयाऽङ्गस्य, परित्यागस्तथो
। स व्युत्सर्गश्चतुर्थ स्थाच्छुक्लध्यानस्य लक्षणम् ॥७॥ यदाहु:-"चालिज्जइ बीहेइ व धीरो न परीस-6, होवसग्गेहिं १ । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २॥ ८॥ देहविवित्तं पिच्छइ अप्पाणं तहय सघसंजोगा ३ । देहोवहिवुस्सग्गं निस्संगो सबहा कुणइ ४ ॥९॥” चत्वार्यालम्बनानि स्युः, शुक्लध्यानस्य च ६ क्रमात् । कषायाणां क्षयात् क्षान्तिमाईवार्जवमुक्तयः॥१०॥ आत्मनोऽनन्तवर्तित्वानुप्रेक्षा प्रथमा भवेत्।। तथा विपरिणामानुप्रेक्षाप्रोक्ता दितीयिका २॥१॥ अनुप्रेक्षाऽशुभत्वस्या३पायानां४ चेति नामतः। शुक्लध्याने चतस्रोऽनुप्रेक्षाः प्रेक्षाश्रयैः स्मृताः॥१२॥ अनन्तकालं भ्रमतो. जीवस्य भवसागरे। भावनाऽनन्तवर्तित्वानुप्रेक्षा परिकीर्तिता ॥१३॥ सा चैवं-"एसो अणाइनिहणे संसारे सागरब दुत्तारे । नारयतिरिअनरामरभवसु परिहिंडए जीवो ॥१४॥" विविधा ये परीणामाः, वस्तूनां तद्विभावना । भवेद्विपरिणामानुप्रेक्षा प्रेक्षावतां प्रिया
॥ १५॥ तथाहि-"सबढाणाई असासयाई इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई.च R॥१६॥" क्षणभङ्गरसंपत्तेर्विरूपस्य भवस्य यत् । विभावनाऽशुभत्वानुप्रेक्षा सा परिकीर्तिता ॥ १७ ॥ तथा
Jain Educa
t ional
For Private & Personal Use Only
JO
el.jainelibrary.org