SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jain Education In अथासङ्ख्यद्वीपवार्द्धिमध्येन द्रुतमापतन् । नन्दीश्वरे रतिकर पर्वतेऽग्निविदिग्गते ॥ ६३ ॥ कृत्वा विमान संक्षेप, जिनजन्मपवित्रिते । नगरे शीघ्रमागत्य, मन्दिरं जिनजन्मनः ॥ ६४ ॥ द्राक् त्रिप्रदक्षिणीकृत्य, विमानेन सुरेश्वरः । विमुञ्चति तदैशान्यां चतुर्भिरङ्गुलैर्भुवः ॥ ६५ ॥ विशेत्ततो गृहं स्वाम्यालोकने घटिताञ्जलिः । पुल|कैर्जलदा सिक्त कदम्बकुसुमायितः ॥ ६६ ॥ जिनं समातृकं नत्वा, दत्त्वा च त्रिः प्रदक्षिणाम् । सुरेश्वरो वदत्येवं, जगत्पूज्ये ! नमोऽस्तु ते ॥ ६७ ॥ धन्याऽसि कृतपुण्याऽसि, सफलं तव जीवितम् । जगच्चिन्तामणिर्यत्ते, कुक्षौ जातो जिनेश्वरः ॥ ६८ ॥ विभासि मातस्त्वं विश्वचक्षुषा शिशुनामुना । लोकम्पृणेन शुचिना, प्रातः| सन्ध्येव भानुना ॥ ६९ ॥ जनयन्त्या जगन्नाथं, मुक्तिमार्गोपदेशकम् । सर्वेषामप्युपकृतं जनानां जननि ! त्वया ॥ ७० ॥ विमोहतिमिरोद्रेक लुप्तविज्ञानचक्षुषाम् । प्रददत्या मुमगर्द, किं नो नोपकृतं त्वया ? ॥ ७१ ॥ अहं शक्रोऽस्मि देवेन्द्रः, सौधर्मस्वर्गनायकः । त्वन्नन्दनगुणाकृष्ट, इहायातोऽस्मि पावने ! ॥ ७२ ॥ मातस्ततोऽनुजानीहि न भेतव्यं मनागपि । त्वत्सुतस्य करिष्यामो जन्मकल्याणकोत्सवम् ॥ ७३ ॥ इत्युदित्वा प्रभो मतुर्दन्तेऽवखापिनीं हरिः । पार्श्वे च स्थापयत्यस्याः कृत्वा प्रतिकृतिं प्रभोः ॥ ७४ ॥ केनचिदुष्टदेवेन, हतनिद्रेह मा स्म भूत् । इयं पुत्रमनालोक्य, पिञ्जलेत्ययमुद्यमः ॥ ७५ ॥ यद्वा परिजनस्तस्या, जातमात्रं तदङ्गजम्। अनालोक्य विषादं मा, यासीदित्ययमुद्यमः ॥ ७६ ॥ ततश्चार्हन्तमादत्ते, पञ्चमूर्त्तिः सुरेश्वरः । मूत्यैकया धौतपूत धूपिते करसंपुटे ॥ ७७ ॥ एकया छत्रमाधत्ते धत्ते द्वाभ्यां च चामरौ । पञ्चम्या वज्रमादाय, पुरो For Private & Personal Use Only १० १४ elibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy