SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain Educatio एतेषु पर्वतेष्वेषु, गृहेषु मण्डपेषु च । दीर्घिकादिषु च खैरं क्रीडन्ति व्यन्तरामराः ॥ ८४ ॥ तथा - परितो जगती भाति, गवाक्षवलयेन सा । गवाक्षवलयं तच्च, गव्यूतद्वितयोच्छ्रितम् ॥ ८५ ॥ शतानि पञ्च धनुषां विस्तीर्ण चारुचित्रितम् । कृतनेत्रमनोमोदं सुराणां रमणोचितम् ॥ ८६ ॥ लवणोदसमासन्नजगतीभित्तिमध्यगम् । दृश्यमानाव्धिकुतुकं ज्ञातव्यं सर्वतः स्थितम् ॥ ८७ ॥ अत्रेदं गवाक्षकटकं जम्बूद्वीपप्रज्ञ सिवृत्तौ जगतीभित्तिमध्यगतमुक्तं, जम्बूद्वीपसंग्रहणीवृत्तौ जगत्या उपर्युक्तं, तथा च तदूग्रन्थः- “तस्याः पार्श्वद्वयेऽपि द्वौ वनखण्डी वेदिकामानदेय विद्येते, नवरं विस्तारेणाभ्यन्तरः सार्द्धधनुः शतद्वयोनयोजन युग्मप्रमाणः, बाह्यस्तुवनखण्डोऽर्द्धाष्टमधनुः शतहीन योजन युग्ममानो, यतस्तत्र अभ्यन्तराद्वनखण्डाधिकानि पञ्चधनुः शतानि जाल कटके नाव रुद्धानि " परं श्रीमलयगिरिपादैर्न तद्विवक्षितं द्वयोरपि वनखण्डयोरेकमेव मानमुक्तं, तत्त्वं तु बहुश्रुता विदन्तीति ॥ सर्वे दीपाः समुद्राश्व, जगत्यैवं विराजिताः । सर्वासां जगतीनां च स्वरूपमनया दिशा ॥८८॥ स्थापना । अथैतस्यां जगत्यां च, द्वाराणि स्युश्चतुर्दिशम् । विजयं वैजयन्तं च, जयन्तं चापराजितम् ॥ ८९ ॥ सहस्रान् पञ्चचत्वारिंशतमुल्लङ्घय मेरुतः । योजनानां दिशि प्राच्यां, शीताकूलङ्कषोपरि ॥ ९० ॥ विजयं द्वार १ गव्यूतद्वयोच्छ्रितगवाक्षस्य भित्तावेव स्थानं, तस्योपरितनो भागो न वनखण्डतया विवक्ष्यते तत्र, अन्यत्र तु तथा विवक्ष्यत इति. २ तथोक्तं क्षेत्रसमासे - "बई रामईहिं निअनियदीवोदहि मज्झगणिअमूलाहिं । अङ्कुञ्चाहिं बारस चउमूले उवरि रुंदाहिं ॥ १ ॥” इत्यादि. यत्तु जीवामिगमे सूत्रे लवणसमुद्रादिषु केवलं वेदिकैवोक्ता, तत्र स लवणनामा समुद्र एकया पद्मवरवेदिकया अष्टयोजनोच्छ्रितजगत्युपरि - ational For Private & Personal Use Only १० www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy