SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Jain Education व्धिमितयोजनः ॥ ५३ ॥ उक्तं जम्बूद्वीपमानमध्येऽस्या मूलविस्तृतिः । भाव्यैवमखिलद्वीपपाथोधिजगतीष्वपि ॥ ५४ ॥ इत्यर्थतो वीरञ्जयक्षेत्रविचारवृत्तौ ॥ अथास्योपरिभागस्य चतुर्योजन विस्तृतेः । मध्यदेशे सर्वरत्नमयी राजति वेदिका ॥ ५५ ॥ सोपरिष्टाद्विष्टरत्नमयी वज्रमयी त्वधः । वज्रस्तम्भखर्णरूप्य फलकैरुपशोभिता ॥ ५६ ॥ नर किन्नर गन्धर्ववृषोर गाश्वहस्तिनाम् । रम्या नानाविधै रूपैर्भाति साऽतिमनोरमैः ॥ ५७ ॥ तथा तस्यां रत्नमय्यो, राजन्ते बहुवल्लयः । वासन्तीचम्पकाशोककुन्दातिमुक्तकादयः ॥ ५८ ॥ लताश्च ताः स्तबकिताः, पुष्पिताः पल्लवान्विताः । प्रणताः क्रीडदमरमिथुनप्रश्रयादिव ॥ ५९ ॥ परिक्षेपेण जगतीसमाना विस्तृता च सा । शतानि पञ्च धनुषामुत्तुङ्गा त्वर्द्धयोजनम् ॥ ६० ॥ स्थाने स्थाने सर्वरत्नमयपद्मोपशोभिता । पद्मप्राधा न्यतो नाम्ना, सा पद्मवरवेदिका ॥ ६१ ॥ विभाति वनखण्डाभ्यां सा पद्मवरवेदिका । उभयोः पार्श्वयोः स्थूलकूलाभ्यामिव निम्नगा ॥ ६२ ॥ परिक्षेपेण जगतीतुल्यौ तौ वनखण्डको । सार्द्धचापशतद्वन्द्वन्यूनद्वियोजनाततौ ॥ ६३ ॥ एवं च - वेदिकाव्याससंयुक्तो, विस्तारो बनयोर्द्वयोः । स्यात्पूर्णो जगतीव्यासो, योजनानां चतुष्ट यम् ॥ ६४ ॥ पुष्पितैः फलिते। शाखाप्रशाखाशतशालितैः । अनेकोत्तमजातीयवृक्षै रम्ये च ते वने ॥ ६५ ॥ विराजते च भूभाग, एतयोर्वनखण्डयोः । मरुत्कीर्णपश्चवर्णपुष्पप्रकरपूजितः ॥ ६६ ॥ कस्तूरिकैलाकर्पूरचन्दनाधिकसौरभैः । अनिलान्दोलनोद्भूतवीणा दिजित्वरारवैः ||३७|| अत्यन्तकोमलैर्नानावर्णैर्वर्ण्यस्तृणाङ्कुरैः । रोमोमैरिव भुवः, सुरक्रीडासुखस्पृशः ॥ ६८ ॥ मरुत्कृतास्फालने नोद्भिरद्भिर्मधुरध्वनीन् । पञ्चवर्णैर्मणिभिरप्यसौ tional For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy