________________
सवारिधिः॥ २४ ॥ ततश्चैकैकेन नाम्ना, न निःप्रत्यवतारणम् । देवदीपो देववार्द्धिन गदीपस्तदम्बुधिः ॥२५॥ यक्षद्वीपो यक्षवार्द्धिर्भूतद्वीपस्तदम्बुधिः। स्वयम्भूरमणद्वीपः, स्वयम्भूरमणाम्बुधिः ॥ २६॥ स्थापना । जम्बूद्धीपादयश्चैते, स्थान द्विगुणविस्तृताः। सर्वे स्वयम्भूरमणार्णवान्ता द्वीपवार्द्धयः॥ २७ ॥ जम्बूद्वीपाद्यथा सिन्धुलवणो द्विगुणस्ततः । धातकीखण्ड इत्येवमन्त्याद् द्वीपात्तदम्बुधिः ॥२८॥ तत्रायं सर्वतः क्षुल्ला, सर्वाभ्यन्तरतः स्थितः। विष्वक् प्रतरवृत्तश्च, पूर्णेन्दुमण्डलाकृतिः॥२९॥ अस्प द्वीपस्याधिपतेरेकपल्पोपमायुषः । महर्द्धिकानाहताख्यदेवस्थाश्रयभूतया॥३०॥जम्ब्वानानारत्नमय्या, वक्ष्यमाणस्वरूपया। सदोपलक्षितोद्वीपो, जम्बूद्वीप इति स्मृतः॥३१॥ युग्नम् । नित्यं कुसुमितैस्तत्र, तत्र देशे विराजते। वनैरनेकैजम्बूनां, जबूद्वीपस्ततोऽपि च ॥ ३२॥ विष्कम्भायामतश्चैष, लक्षयोजनसंमितः परितःपरिधिस्त्वस्य, श्रूयतां यः श्रुते श्रुतः॥३३॥ लक्षत्रयं योजनानां, सहस्राणि च षोडश । कोशास्त्रयस्तदधिकमष्टाविंशं धनु शतम् ॥३४॥ त्रयोदशाङ्गलाः साद्धों, यवाः पञ्चैकयूकिका। जम्बूद्वीपस्थ गणितपदं वक्ष्येऽथ तत्त्वदः॥३५॥ शतानि सप्त कोटीनां, नवतिः कोटयः पराः। लक्षाणि सप्तपञ्चाशत्, षट्सहस्रोनितानि च ॥३६॥ सार्द्ध शतं योजनानां, पादोनक्रोशयामलम् । धनूंषि पञ्चदश च, सार्द्ध करद्वयं तथा॥३७॥ अङ्कतोऽपि७९०५६९४१५० को०१ धनुः १५१५ कर २ अं १२ ॥ जम्बूद्वीप स्थापना ।। अयं भाव:-इयन्ति जम्बूद्वीपस्य, योजनप्रमितानि वै । चतुरस्राणि खण्डानि, स्युः क्रोशाद्यतिरिच्यते ॥३८॥ असौ सहस्राणि नवनवतिः स्यात्समुच्छितः। साधिकानि योजनानामूर्वाधश्च सहस्रकम् ॥ ३९ ॥ उद्वेधोच्छ्र
INTww.jainelibrary.org
Jain Educat
For Private Personal Use Only
onal