________________
लोकप्रकाशाएव कायवाङ्मनोभिरभ्युत्थानाञ्जलिप्रणिपाततथागुणवचनैकाग्र्यभावनाभिर्भगवतोऽर्हतो नमस्यन्ती"ति । वेयाः स्प२७ सर्गे
सरते तु कदाप्येषां, मनोऽपि न भवेन्मनाक् । निर्मोहानामिवर्षीणां, सदाप्यविकृतात्मनाम् ॥ ६२॥ न चैव दिसुखे विगीतसंगीतसुरतास्वादवर्जितम् । किमेतेषां सुखं नाम, स्पृहणीयं यदङ्गिनाम् ? ॥ ६३ ॥ अत्रोच्यतेऽत्यन्तमन्द-क्रमाधिक्यं
वेदोदयिनो ह्यमी। तत्प्राक्तनेभ्यः सर्वेभ्योऽनन्तनसुखशालिनः ॥६४॥ तथाहि कायसेविभ्योऽनन्तन॥३६४॥ सुखशालिनः स्युः स्पर्शसेविनस्तेभ्यस्तथैव रूपसेविनः॥६५॥ शब्दोपभोगिनस्तेभ्यस्तेभ्यश्चित्तोपभोगिनः।
तेभ्योऽनन्तगुणसुखा, रतेच्छावर्जिताः सुराः॥६६॥ यच्चैषां तनुमोहानां, सुखं संतुष्टचेतसाम् । वीतरागाणामिवोच्चैस्तदन्येषां कुतो भवेत् ॥ ६७ ॥ मोहानुदय सौख्यं, स्वाभाविकमतिस्थिरम् । सोपाधिकं वैषयिकं, वस्तुतो दुःखमेव तत् ॥ १८॥ भोज्याङ्गनादयो येऽत्र, गीयन्ते सुखहेतवः। रोचन्ते न त एव क्षुत्कामाद्यत्ति विनाऽङ्गिनाम् ॥ ६९॥ ततो दुःखप्रतीकाररूपा एते मतिभ्रमात् । सुखत्वेन मता लोकैर्हन्त मोहविडम्बितः॥७॥ उक्तं च-"तृषा शुष्यत्यास्ये पिबति सलिलं खादु सुरभि, क्षुधातः सन् शालीन कवलयति मांस्पाकवलितान् । प्रदीसे कामानौ दहति तनुमाश्लिष्यति वधूं, प्रतीकारो व्याधेः सुखमिति विपर्यस्थति जनः॥७१॥" नन्वेवं यदि निर्वाणमदनज्वलनाः खतः। कथं ब्रह्मव्रतं नैते, स्वीकुर्वन्ति महा
॥३६॥ धियः॥७२॥ अत्रोच्यते देवभवस्वभावेन कदापि हि । एषां विरत्यभिप्रायो, नाल्पीयानपि संभवेत् ॥७३॥ भवखभाववैचित्र्यं, चाचिन्त्यं पशवोऽपि यत् । भवन्ति देशविरतास्त्रिज्ञाना अप्यमी तु न ॥७४॥ आद्यप्रैवे
Jain Education
a
l
For Private Personel Use Only
Housinelibrary.org