________________
सुरैरारणाच्युतवासिभिः ॥ २२॥ द्वात्रिंशत्साधिकान् शक्तो, जम्बूद्वीपान विकुर्वितैः । रूपैः पूरयितुं तिर्यक, चासंख्यद्वीपवारिधीन् ॥ २३ ॥ भुते साम्राज्यमुभयोरारणाच्युतनाकयोः । विमानत्रिशतीनेता, द्वाविंशत्यु-18 दधिस्थितिः॥ २४ ॥ सप्तभिः कुलकं ॥ अस्य यानविमानं स्यात्सर्वतोभद्रसंज्ञकम् । सर्वतोभद्रदेवश्च, नियुक्तस्तद्विकुर्वणे ॥ २५ ॥ स्थानाङ्गपञ्चमस्थाने तु आनतप्राणतयोरारणाच्युतयोश्च प्रत्येकमिन्द्रा विवक्षिता दृश्यन्ते, तथा च तत्सूत्रं-'जहा सकस्स तहा सवेसिं दाहिणिल्लाणं जाव आरणस्त, जहा ईसाणस्स तहा सत्वेसिं उत्तरिल्लाणं जाव अनुयस्स" एतद्वृत्तावपि देवेन्द्रस्तवाभिधानप्रकीर्णक इव द्वादशानामिंद्राणां विवक्षणादारणस्येत्यायुक्तमिति संभाव्यते, अन्यथा चतुषु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति, प्रज्ञापनाजीवाभिगमसूत्रादौ तु दशैव वैमानिकेन्द्रा उक्ता इति प्रतीतमेव ॥ अच्युतवर्गपर्यन्तमेषु वैमानिकेष्विति । यथासंभवमिन्द्राद्या, भवन्ति दशधा सुराः॥२६॥ तथाहि-इन्द्राः सामानिकास्त्रायस्त्रिंशास्त्रिविधपार्षदाः। आत्मरक्षा लोकपाला, आनीकाश्च प्रकीर्णकाः॥२७॥ आभियोग्याः किल्बिषिका, एवं व्यवस्थयान्विताः । अत एव च कल्योपपन्ना वैमानिका अमी॥ २८ ॥ एवं च भवनाधीशेष्वप्यते दशधा सुराः। भवन्त्यष्टविधा एव, ज्योतिष्कव्यन्तरेषु तु ॥२९॥ जगत्वाभाव्यतस्तत्र, द्वौ भेदी भवतो न यत् । त्रायस्त्रिंशा लोकपाला, अच्युतात्परतः पुनः॥ ३०॥ ग्रैवेयकानुत्तरेषु, स्युः सर्वेऽप्यहमिन्द्रकाः । देवा एकविधा एव, कल्पातीता अमी ततः ॥ ३१॥ आरणाच्युतनाकाभ्यां, दूरमूवं व्यतिक्रमे । नवग्रैवेयकाभिख्या:, प्रतरा दद्धति श्रियम् ॥३२॥
Jain Educa
t
ional
For Private
Personal Use Only
X
w
.jainelibrary.org