________________
गमणं तु देवदेवीण'मित्यादिवस
स्युः संख्येयगुणास्तभ्यश्चत
त्रिभिः संहननै
इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तओ णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओ चिट्ठति, तओ णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति, 'आरेण अच्चुयाओ गमणागमणं तु देवदेवीण'मित्यादिपूर्वसंग्रहणीगतप्रक्षेपगाथायास्तु संवादो न दृश्यते," इति लघुसंग्रहणीवृत्तौ ॥ प्रज्ञप्ताः सर्वतः स्तोका, देवा अप्रविचारकाः । स्युः संख्येयगुणास्तेभ्यश्चेतःसुरतसेविनः ॥ ३४॥ तेभ्यः क्रमाच्छब्दरूपस्पर्शसंभोगसेविनः । यथोत्तरमसंख्येयगुणा उक्ता जिनेश्वरैः ॥ ३५॥ आद्यस्त्रिभिः संहननैरुपेता गर्भजा नराः। उत्पद्यन्त एष्वमीभ्यश्युत्त्वाऽप्यनन्तरे भवे ॥ ३६॥ गर्भजेषु नरेष्वेवोत्पद्यन्ते नापरेवथ । अनुत्तरान्तदेवानामेवं ज्ञेये गतागती॥ ३७॥ एकेन समयेनामी, च्यवन्त उद्भवन्ति च । संख्येया एव नासंख्याः, संख्येयत्वान्नृणामिह ॥ ३८॥ अनोत्पत्तिच्यवनयोर्विरहः परमो भवेत् । वर्षादागेव मासाः, संख्येयाः प्राणतेऽपि ते ॥ ३९॥ अब्दादागेव किंवानतव्यपेक्षयाधिकाः । अग्रेऽप्येवं भावनीयं, बुधैर्वर्षशतादिषु ॥४०॥ संपूर्णमभविष्यच्चेद्वर्षवर्षशतादिकम् । तत्तदेवाकथयिष्यन् , सिद्धान्ते गणधारिणः ॥४१॥ संख्येयानेव मासादीन् , वर्षादेरविवक्षया । केचिन्मन्यन्तेऽविशेषाद्वर्षादेरधिकानपि ॥४२॥ तथाहुः संग्रहणीवृत्तौ-"विशेषव्याख्या चैषा हारिभद्रमूलटीकानुसारतः, केचित्तु सामान्येन व्याचक्षते" पश्चमी पृथिवीं यावत्पश्यन्त्यवधिचक्षुषा। आनताः प्राणताश्चैनामेवानल्पाच्छपर्यवाम् ॥४३॥ आरणाच्युतदेवा अप्येनामेवा
Jain Educatio
n
al
For Private & Personel Use Only
oljainelibrary.org