SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ को. प्र. ४३ Jain Education भस्तथा कंसवर्णाभो नील एव च ॥ ५ ॥ नीलावभासो रूपी च, रूपावभासभस्मको । भस्मराशि - तिलतिलपुष्पवर्णदकाभिधाः ॥ ६ ॥ दकवर्णस्तथा कायोऽवन्ध्य इन्द्राग्निरेव च । धूमकेतुर्हरिः पिङ्गलको बुधस्तथैव च ॥ ७ ॥ शुक्रो बृहस्पती राहगस्तिर्माणवकाभिधः । कामस्पर्शश्च धुरकः, प्रमुखो विकटोsपि च ॥ ८ ॥ विसन्धिकल्पः प्रकल्पः स्युर्जटालारुणाग्नयः । षट्पञ्चाशत्तमः कालो, महाकालस्ततः परः ॥ ९ ॥ स्वस्तिकः सौवस्तिकश्च वर्द्धमानः प्रलम्बकः । नित्यालोको नित्योद्योतः स्वयंप्रभावभासकौ ॥ १० ॥ श्रेयस्करस्तथा क्षेमङ्कर आभङ्करोऽपि च । प्रभङ्करोऽरजाचैव विरजा नाम कीर्त्तितः ॥ ११ ॥ अशोको वीतशोकश्च, विमलाख्यो विततकः । विवस्त्रश्च विशालश्च, शालः सुव्रत एव च ॥ १२ ॥ अनिवृत्तिचैकजटी, द्विजटी करिकः करः । राजाऽर्गलः पुष्पकेतुर्भाव केतुरिति ग्रहाः ॥ १३ ॥ ग्रहास्तु सर्वे वक्रातिचारादिगतिभावतः । गता - वनियतास्तेन, नैतेषां प्राक्तनैः कृता ॥ १४ ॥ गतिप्ररूपणा नापि, मण्डलानां प्ररूपणा । लोकान्तु केषांचित्किञ्चिद्गत्यादि श्रूयतेऽपि हि ॥ १५ ॥ मेरोः प्रदक्षिणावर्त्त, भ्रमन्त्येतेऽपि मण्डलैः । सदाऽनवस्थितैरेव, दिवाकर शशाङ्कवत् ||१६|| अवस्था यिमण्डलाचन्दाद्ययोगचिन्तनात् । नापि चक्रे तारकाणां मण्डलादिनिरूपणं ॥ १७ ॥ तथोक्तं जीवाभिगमसूत्रे "णकखत्ततारगाणं, अवट्टिया मण्डला मुणेयच्चा । तेऽविय पयाहिणावत्तमेव मेरुं अणुपरिंति” ॥ १८ ॥ एवं रवीन्दु ग्रह ऋक्षताराचारखरूपं किमपि न्यगादि । शेषं विशेषं तु यथोपयोगं, ज्योतिष्कचक्रावसरेऽभिधास्ये ॥ १९॥ (इन्द्रवज्रा) विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाच केद्रान्तिषद्वाज - For Private & Personal Use Only १० १४ jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy