SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ वै। उपर्यधो नव नव, स्थाप्यन्ते परमाणवः॥७९॥ अष्टव्योमांशावगाढं, स्पष्टमष्टप्रदेशकम् । युग्मप्रदेशं तु घनचतुरस्रं भवेद्यथा ॥८॥ चतुष्पदेशप्रतरचतुरस्रस्य चोपरि।चतुष्पादेशिकोऽन्योऽपि, प्रतरः स्थाप्यते किल ॥ ८१॥ ओजःप्रदेशजं श्रेण्यायतं स्यात्रिप्रदेशजम् । त्र्यंशावगाढमणुषु, त्रिषु न्यस्तेषु संततम् ॥ ८२॥ निरन्तरं स्थापिताभ्यामणुभ्यां द्विप्रदेशजम् । युग्मप्रदेशज श्रेण्यायतं यभ्रांशसंस्थितम् ॥ ८३ ॥ ओजःप्रदेशं प्रतरायतं पञ्चदशांशकम् । तावव्योमांशावगाढमित्थं तदपि जायते ॥ ८४ ॥ पङ्कित्रयेऽपि स्थाप्यन्ते, पञ्च पञ्चाणवस्तदा । ओजःप्रदेशजनितं, भवति प्रतरायतम् ॥ ८५ ॥ षट्खांशस्थं षट्प्रदेशं, स्याद्युग्मप्रतरायतम् । त्रिषु त्रिषु द्वयोः पङ्क्तयोय॑स्तेषु परमाणुषु ॥८६॥ पञ्चचत्वारिंशदंशमोजाणुकं घनायतम् । पञ्चचत्वारिंशदभ्रप्रदेशेषु प्रतिष्ठितम् ॥ ८७॥ तत्र च-पूर्वमुक्ते पञ्चदशप्रदेशप्रतरायते । पञ्चदश पञ्चदशाणवः स्थाप्या उपर्यधः ॥८८॥ द्वादशांशं द्वादशाभ्रांशावगाढं घनायतम् । युग्मप्रदेशजं ज्ञेयमित्थं तदपि जायते| ॥ ८९॥ षडंशस्य च प्रतरायतस्योपरि विन्यसेत् । षट् प्रदेशांस्ततो युग्मप्रदेशं स्याद् घनायतम् ॥ ९०॥ विंशत्यभ्रांशावगाढं, विंशत्यंशात्मकं भवेत् । युग्मप्रदेशं प्रतरपरिमण्डलनामकम् ॥९१॥ चतुर्दिशं तु चत्वा-18 रश्चत्वारः परमाणवः।विदिक्षु स्थाप्य एकैको, भवेदेवं कृते सति॥९२॥अणूनां विंशतेरेषामुपयेणुषु विंशती। स्थापितेषु युग्मजातं, स्याद घनं परिमण्डलम् ॥९३॥ एतचत्वारिंशदंश, तावत्खांशप्रतिष्ठितम् । ओजःप्रदेशजनिती, त्वत्र भेदी न संमतौ ॥९४ ॥ उक्त प्रदेशन्यूनत्वे, संभवंति न निश्चितम् । संस्थानानि यथोक्तानि, JainEducatasthional For Private Personel Use Only INow.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy