SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ स्याद् द्वादशमुहूर्तात्मा, वेदनीयस्य कर्मणः ॥७०॥ उपशांतक्षीणमोहादिकानां स्वकषायिणाम् । योगैकहेतुव | दस्य, वेद्यस्य द्वौ क्षणौ स्थितिः ॥७१॥ स्थितिलघ्व्यन्तर्मुहूर्त, मोहनीयस्य कर्मणः । आयुषः क्षुल्लकभवप्रमिता सा प्रकीर्तिता ॥७२॥ अष्टाष्टौ च मुहूर्तानि, गोत्रनाम्नोलघुः स्थितिः । अन्तर्मुहूर्तप्रमिता, साऽन्तरायस्य कर्मणः॥७३॥ यावत्कालमनुदयो, बद्धस्य यस्य कर्मणः। तावानबाधाकालोऽस्य, स जघन्येतरो द्विधा ॥७४॥ अवाधाकाल उत्कृष्टस्त्रयोऽब्दानां सहस्रकाः। आद्यकर्मत्रये सुष्ठ, निर्दिष्टो दृष्टविष्टपैः॥७५॥ सप्त वर्षसहस्राणि, मोहनीयस्य कर्मणः । पूर्वकोव्यास्तृतीयोऽशः, स भवत्यायुषो गुरुः ॥७६ ॥ गोत्रनाम्रोः कर्मणोस्तु, द्वे हे सोऽन्दसहस्रके । त्रीण्येवाब्दसहस्राणि, सोऽन्तरायस्य कर्मणः॥७७॥ जघन्यतस्त्वबाधाद्धा, सर्वेषामपि कर्मणाम् । अन्तर्मुहूर्तप्रमिता, कथिता तत्त्ववेदिभिः॥७८ ॥ अबाधाकालहीनायां, यथावकर्मणां स्थिती। भवेत्कर्मनिषेकस्तत्, परिभोगाय देहिनाम् ॥७९॥ कर्मणां दलिकं यत्र, प्रथमे समये बहु। द्वितीयसमये हीनं, ततो हीनतरं क्रमात् ॥ ८०॥ एवं या कर्मदलिकरचना क्रियतेऽङ्गिभिः । वेदनार्थमसौ कर्मनिषेक इति कीर्त्यते ॥ ८१॥ कर्माण्यमूनि प्रत्येकं, प्राणिनामखिलान्यपि । भवेऽनादौ तिष्ठतां स्युरनादीनि प्रवाहतः ॥ ८२॥ स्वभावतोऽकर्मकाणां, जीवानां प्रथमं यदि । संयोगः कर्मणामङ्गीक्रियते समये कचित् ॥ ८३ ॥ तदा कर्मक्षयं कृत्वा, सिद्धानामपि देहिनाम् । पुनः कदाचित्समये, कर्मयोगः प्रसज्यते ॥ ८४ ॥ विश्लेषस्तु भवेजीवादनादित्वेऽपि कर्मणाम् । ज्ञानादिभिः पावकाद्यैरुपलस्येव काश्चनात् ॥ ८५॥ नन्वेवमन्तरायाणां, पञ्चानां १४ Jan Educati o nal For Private Personel Use Only mineraryong
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy