SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ याः। पञ्चषष्टिः स्युरेवं ताः, प्रतिभेदविवक्षया ॥७६॥ गतिश्चतुर्धा नरकतिर्यनरसुरा इति। एकद्वित्रिचतुःपञ्चेन्द्रियाः पञ्चेति जातयः॥७७॥ देहान्यौदारिकादीनि, पञ्च प्रागुदितानि वै । त्रिधाऽङ्गोपाङ्गानि तेषां, विना तैजसकार्मणे ॥ ७८॥ तत्राङ्गानि वाहपृष्ठोस्रोमूर्धादिकानि वै । अङ्गुल्यादीन्युपाङ्गानि, भेदोऽङ्गोपाङ्गयोरयम् ॥ ७९ ॥ नखाङ्गुलीपर्वरेखाप्रमुखाण्यपराणि च । अङ्गोपाङ्गानि निर्दिष्टान्युत्कृष्टज्ञानशालिभिः ॥८॥ औदारिकाद्यङ्गसत्कपुद्गलानां परस्परम् । निबद्धबध्यमानानां, संबन्धघटकं हि यत् ॥८१॥ तद् बन्धनं स्वखदेहतुल्याख्यं पञ्चधोदितम् । दार्वादिसंधिघटकजवादिसदृशं ह्यदः ॥ ८२॥ औदारिकाद्यङ्गयोग्यान्, संघातयति पुद्गलान् । यत्तत्संघातनं पञ्चविधं बन्धनवद्भवेत् ॥ ८३ ॥ यद्वा पञ्चदशविधमेवं भवति बन्धनम्। औदारिकौदारिकाख्यं, बन्धनं प्रथमं भवेत् ॥८४॥ औदारिकतैजसाख्यं, तथौदारिककार्मणम् । स्याद्वैक्रियवैक्रियाख्यं, तथा वैक्रियतैजसम् ।। ८५ ॥ वैक्रियकार्मणाख्यं चाहारकाहारकं तथा । आहारकतैजसं च, तथाऽऽहारककामणम् ॥८६॥ औदारिकतैजसकार्मणं बन्धनमीरितम् । वैक्रियतैजसकार्मणबन्धनमथावरम् ।। ८७॥ आहारकतैजसकामणबन्धनमेव च । तैजसतैजसबन्धनं च तैजसकार्मणम् ॥ ८८॥ कार्मणकार्मणं चेति, स्युः पञ्चदश तानि हि।तत्र पूर्वसंगृहीतैर्यदौदारिकपुद्गलः॥८॥गृह्यमाणौदारिकापुद्गलानां परस्परम् । संबन्धकृत्तदौदारिकौदारिकाख्यवन्धनम् ॥९०॥ (युग्मम् ) एवंच-औदारिकपुद्गलानां, सह तैजसपुद्गलैः । संबन्धघटकं त्वौदारिकतैजसबन्धनम् ॥ ९१॥ औदारिकपुद्गलानां, सह कार्मणपुद्गलैः। संबन्धकृद्भवत्यौदारिककार्मणबन्ध मम् ) एवंच माणीदारिकाङ्गपुङ्गला कामेणकार्मणं चेति ॥ आहार in Educ a tional For Private Personel Use Only Taldaw.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy