SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 20000290SSROO202029292020 सा च दुःखप्रबोधका । निद्रानिद्रा प्रचला च, स्थितस्योर्द्धस्थितस्य वा ॥४९॥ गच्छतोऽपि जनस्य स्यात्प्रचलाप्रचलाभिधा । स्त्यानर्द्धिर्वासुदेवार्धबलाऽहश्चिन्तितार्थकृत् ॥५०॥ "स्त्याना-संघातीभूता गृद्धिः-दिनचिन्तितार्थविषयाऽभिकाङ्क्षा यस्यां सा स्त्यानगृद्धि"रिति तु कर्मग्रन्थावचूर्णौ । आयसंहननापेक्षमिदमस्या बलं मतम् । अन्यथा तु वर्तमानयुवभ्योऽष्टगुणं भवेत् ॥५१॥ अयं कर्मग्रन्थवृत्त्याद्यभिप्रायः, जीतकल्पवृत्तौ तु “यदुदयेऽतिसंक्लिष्टपरिणामाद्दिनदृष्टमर्थमुत्थाय प्रसाधयति केशवार्धबलश्च जायते, तदनुदयेऽपि च स शेषपुरुषेभ्यस्त्रिचतुर्गुणबलो भवति, इयं च प्रथमसंहननिन एव भवतीति ज्ञेयं । दर्शनानां हन्ति लब्धि, मूलादायं चतुष्टयम् । लब्धां दर्शनलब्धि द्राग, निद्रा निघ्नंति पञ्च च ॥५२॥ वेदनीयं द्विधा सातासातरूपं प्रकीर्तितम् । स्यादिदं मधुदिग्धासिधारालेहनसंनिभम् ॥५३॥ यद्धेद्यते प्रियतया स्रगादियोगाद्भवेत्तदिह सातम् । यत्कण्टकादितोऽप्रियरूपतया वेद्यते त्वसातं तत् ॥५४॥ (गीतिः) यन्मद्यवन्मोहयति, जीवं तन्मोहनीयकम् ।। द्विधा दर्शनचारित्रमोहभेदात्तदीरितम् ॥५५॥ मिथ्यात्वमिश्रसम्यक्त्वभेदात्तत्रादिमं त्रिधा । चारित्रमोहनीयं तु, पञ्चविंशतिधा भवेत् ॥५६॥ कषायाः षोडश नव, नोकषायाः पुरोदिताः । इत्यष्टाविंशतिविधं, मोहनीयमुदीरितम् ॥ ५७॥ एति गत्यन्तरं जीवो, येनायुस्तच्चतुर्विधम् । देवायुश्च नरायुश्च, तिर्यनैरयिकायुषी॥५८॥ इदं निगडतुल्यं स्यादसमाप्येदमङ्गभाक् । जीवः परभवं गन्तुं, न शक्नोति कदापि यत् ॥ ५९॥ गूयते शब्द्यते शब्दैर्यस्मादुच्चावचैर्जनः। तद्गोत्रकर्म स्यादेतद्, द्विधोचनीचभेदतः ॥६०॥ इदं कुलाल तुल्यं १४ Jan Educa Ho Donal For Private Personal Use Only aw.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy