________________
॥ श्री शश्वरपाश्वनाथाय नमोनमः ॥
॥ऐं नमः ॥
श्री भगवती-सूत्रावचरिः
अवचूरि:-अथ समस्तप्रत्यवभासनसमर्थाऽचिन्त्यविभूतिकेवलालोकितलोकालोकेन परमगुरुणा भवगता श्रीवर्धमानस्वामिना प्रणीतस्य प्रकर्षपर्यन्तवृत्ताऽपवर्गपुरुषार्थाऽ[व्य]भिचरितसाध्यसाधनप्रविभागसम्बोधनसमर्थस्य, अध्येतणामनेकसामर्थ्यसम्पादनसमर्थस्य भगवतो द्वादशाङ्गस्य श्रुतज्ञानशास्त्रप्रवृत्तिकथनमुपोद्धातो भगवता भद्रबाहुस्वामिना नामायिकनियुक्तौ दर्शितः । पञ्चमस्य त्वङ्गस्य एवमनुश्रूयते-भगवता सुधर्मस्वामिना पञ्चमेन गणधरे स्वशिष्यस्य भगवतो जम्बूम्वामिन इदं पृच्छतः
यदि भगवन् ! व्याख्याप्रज्ञप्तेरङ्गस्यायमर्थो भगवता प्रज्ञापितः अथ षष्ठस्याङ्गस्य कोऽर्थः प्रज्ञापितः ? इति ।
तत्रेदमवगम्यते,-अवश्यं गुरुणा-आचार्येण तस्याङ्गस्य प्रवृत्तिसम्बन्ध आख्यातः । स तु भगवटा एवमाज्यातः-ते णं काले णं ते णं समए णं, इत्यादि ।
अथेदानीमनेन सम्बन्धन प्राप्तस्य पञ्चमाङ्गसम्बन्धग्रन्थस्य शब्दार्थव्याख्यानं क्रियते ।
Jain Education Intema
For Private & Personal Use Only
www.jainelibrary.org