SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ 白9999999999999999999999999999。 दुर्जनाः पण्डिता इव । येषां भयेन काव्यानि, न कूटानि पठन्त्यमी ॥ ८ ॥ प्रकृत्या प्राकृतं प्राज्ञैर्दुर्व्याख्येयं यथा- म. का. स्थितम् । अतः संस्कृत्य पूर्वार्थान, श्रोतृणां कथयाम्यहम् ॥ ९॥ इत्थं कृतनमस्कारो, भव्यानां बोधहेतवे । धर्मरत्नत्रयाख्यान-मयं शास्त्रं तनोम्यहम् ॥ १०॥ धर्मो मङ्गलमुत्कृष्टं, धर्मः सर्वसमृद्धिदः । धर्मः शर्मकरो नित्यं, धर्मः कर्ममलापहः ॥ ११ ॥ सन्तानतारको धर्मो, धर्मः पूर्वजयावनः । अपकीर्तिहरो धर्मो, धर्मः कीर्तिविवईनः ॥१२॥ तक्रादिव नवनीतं, कमलं कर्दमादिव । इव मुक्तामणिवंशात्सारं धर्मो नृजन्मनः ॥ १३ ॥ वेदवाक्येषु सर्वेषु, प्रणवः । प्रथमो यथा । पुरुषार्थेषु सर्वेषु, तथा धर्मो निगद्यते ॥ १४ ॥ दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म उच्यते । ज्ञानदर्शनचारित्र-रत्नत्रयमयः स तु ॥ १५॥ जीवाजीवादितत्त्वानामवबोधो यतो भवेत् । तदत्र कथ्यते सम्यग्ज्ञानरत्नं विवेकिभिः ॥ १६ ॥ तृतीयं लोचनं ज्ञानमदृष्टार्थप्रकाशनम् । द्वितीयं च वेर्बिम्बं, दृष्टेतरतमोऽपहम् ॥ १७ ॥ ज्ञानं निष्कारणो बन्धुर्ज्ञानं यानं भवाम्बुधौ । ज्ञानं प्रस्खलतां यष्टिर्ज्ञानं दीपस्तमोभरे ॥ १८ ॥ ज्ञानादुद्धियते । जन्तुः, पतितोऽपि महापदि । एकश्लोकार्थबोधेन, यथा मलयसुन्दरी ॥ १९ ॥ तथाहि द्वीपेषु मध्यमो जम्बूद्वीपोऽस्तीह महीतले । राकेन्दुरिव यो वृत्तो, लवणोदधिनाऽऽवृतः ॥२०॥ लक्षयोजनमानस्य, 20000000000000000000000000000000००८ Jain Education All For Private & Personal use only All.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy