________________
श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोदारे-ग्रन्थाङ्क:
श्रीजयतिलकसूरिविरचितं
श्रीमलयसुन्दरीचरित्रनाममहाकाव्यम् ।
ॐ नमः श्रीजिनाय. el चतुरङ्गो जयत्यर्हन, दिशन् धर्म चतुर्विधम् । चतुष्काष्ठासु प्रसृतं, जेतुं मोहचमूरिख ॥ १ ॥ जन्यत्याद्याहतो ।
रक्ताः, करपादाङ्गुलीनखाः । विंशतिस्थानकश्रीणां, कौकुमास्तिलका इव ॥ २ ॥ दीपालिकापुरे यस्य, फणामणिमिषात्सदा । पार्थोऽश्रीनिर्गमं लक्ष्मी-प्रवेशं च करोतु सः ॥ ३ ॥ सर्वार्थसिद्धयनीहोऽपि, मम सर्वार्थसिद्धये ।। सिद्धार्थजनकोऽप्यस्तु, जिनः सिद्धार्थनन्दनः ॥ ४॥ येन बोधप्रदीपेन, निरस्याभ्यन्तरं तमः । ममात्मा निर्मलीचक्रेला तस्मै श्रीगुरवे नमः ॥ ५॥ श्रीसूरिमन्त्रराजस्य, प्राक्पदेषु प्रतिष्ठिता । श्रीगौतमाहिभक्ताऽस्तु, प्रसन्ना मे सरस्वती ॥६॥ प्राकृतेनात्र यैरा, मदर्थमिव सञ्चिताः । पितृकल्पाः कवीन्द्रास्ते, जयन्ति जिनशासने ॥ ७ ॥ तर्जयन्तो जयन्त्यत्र,
Jain Education inlional
For Private & Personel Use Only
O
w.jainelibrary.org