SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ म. म. धर्मे स्थिरीकृतः ॥५॥ कतिचिदिनपर्यन्ते, नन्तुमुत्को महत्तराम् । राजा शतबलोऽप्यागात्, भ्रातृस्नेहेन तत्र सः म. का. ॥ ६ ॥ महत्तरां ववन्दाते, शृणुतःस्म च देशनाम् । तौ हावप्यासिषेवाते, धर्ममेकाग्रमानसौ ॥ ७ ॥ आनर्चतुस्त्रिकालं तौ, जिनं सत्सत्त्वशालिनौ । पात्रेभ्यो ददतुर्दानं, तपः शक्त्या च चक्रतुः ॥ ८ ॥ विधिना सङ्घपूजां | तो, दानशालाश्च चक्रतुः । वारयामासतुर्लोकमधर्मान्मारितोऽपि च ॥ ९ ॥ प्रतिग्राम प्रतिद्रषं, जिनेन्द्रभुवनैस्तथा । भूषयामासतुर्भूमि, सकलामचलापती ॥ ८१० ॥ जिनचैत्येषु सर्वेषु, स्नात्रपूजोत्सवादिभिः । अष्टाहिकाः | सदातीर्थरथयात्राश्च चक्रतुः ॥ ११ ॥ दृढस्नेहौ सदा जैनधर्मभारधुरन्धरौ । बान्धवौ तस्थतुस्तौ हौ, कुर्वाणौ शासनोन्नतिम् ॥ १२ ॥ सिषेवे सर्वलोकोऽपि, जिनधर्म नृपानुगः । नास्फुरन्नपरे धर्मास्तारा इव खगोदये ॥ १३ ॥ कांश्चित् कांश्चित् जनान् धर्मविशेषेऽथ क्वचित् क्वचित् । स्थापयित्वा गताऽन्यत्रापृच्छय पुत्रौ महत्तरा ॥ १४ ॥ प्रभूतान्यथ वर्षाणि, पालयित्वा यतिव्रतम् । तुच्छयित्वा च कर्माणि, तपोयोगसमाधिभिः ॥ १५ ॥ कृत्वा चाराधनां । प्रान्ते, श्रीमन्मलयसुन्दरी । जगाम द्वादशे कल्पे, साऽच्युताख्ये महत्तरा ॥ १६ ॥ युग्मम् ॥ ततश्च्युता विदेहे सा, समुत्पद्योत्तमे कुले । क्रमेण चरणं लात्वा, गमिष्यति सुरालयम् ॥ १७ ॥ ततो मलयसुन्दर्या, एकश्लोकार्थचिन्त 6܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥९६॥ Jan Education For Private Personal use only
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy