SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ मुक्तबन्धे ग्रहोत्तीर्णे, महापदि च नीरुजि । इष्टे जनेऽत्र जायेत, शोकः किं वा महोत्सवः ? ॥ ९३ ॥ सुदुस्सहाग्नि-1 पीडापि, न चिन्त्या च पितुस्त्वया । प्रहारान्न सहन्ते किं, जयश्रीलम्पटा भटाः ॥ ९४ ॥ साधयन्तोऽथवा विद्यां, नरा दुःखं सहन्त्यलम् । सिद्धिरत्यद्भुता येन, विना कष्टं न जायते ॥९५॥ तातपादा नता नैव, कर्त्तव्येति च नाधृतिः।। जनकाराधनासक्तो, यत्त्वं प्रागधुनाऽपि च ॥ ९६ ॥ तद्विमुञ्च पितुः शोकं, परिभावय संसृतिम् । परित्राणं न । शोकेन, किञ्चिद्भवति देहिनाम् ॥ ९७ ॥ भवं दुःखालयं विडि, सङ्गमं स्वप्नसन्निभम् । लक्ष्मी विद्युल्लतालोला, जीवितं बुबुदोपमम् ॥ ९८ ॥ यदि युष्मादृशोऽप्येवं, गुरुशिक्षाविचक्षणाः । शोकं कुर्वन्ति तडैर्य, विवेकोऽपि क्व यास्यति ? ॥ ९९ ॥ एवं धर्मोपदेशैः स, बोधितो नृपतिस्तया । संविग्नो गतशोकश्च, लग्नो धर्मे विशेषतः॥ ८०० ॥ नित्यं महत्तरापादान , वन्दते स्म नरेश्वरः । उपदेशान् शृणोति स्म, शासनोन्नतिमातनोत् ॥ १॥ चैत्यं च कारयामास, सिद्धिस्थाने मुनीशितुः । प्रतिमां च पितुस्तत्र, विविधानुत्सवानपि ॥ २ ॥ जनानां तत्र सर्वेषामुपकारं विधाय सा । आपृच्छय नृपतिं तस्मात् , विजहार महत्तरा ॥ ३ ॥ पृथ्वीस्थानपुर साऽऽपत् , प्रतिबोधयितुं क्रमात् ।। पितृशोकाकुलं भूपं, सहस्रबलसंज्ञितम् ॥ ४ ॥ धर्मोपदेशदानेन, सहस्रबलभूपतिः । सम्बोध्य सपरीवारस्तया । Jain Education Monal For Private & Personal Use Only jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy