________________
Jain Education
| मेतया । कण्ठे कनकवत्याः स, ततो नीत्वा निवेशितः ॥ ६४ ॥ अत्रान्तरेऽवदद्दीरधवलो विस्मिताशयः । भगवन् ! किमिदं सम्यग् वदास्माकमसम्भव ? ॥६५ ॥ येनैष मिलितो नैव, कदाप्यस्या महाबलः । स्वयंवराभिधं मुक्त्वा, तदैकं वरमण्डपम् ॥ ६६ ॥ ततः कुमारसुन्दर्योर्दम्पत्योः रंमयमानयोः । सर्वमप्यवदत्सूरिर्ज्ञानदृष्टत्रिविष्टपः ॥ ६७ ॥ कुमारो मिलितः पूर्वं यथा तत्रागतश्च सः । लक्ष्मीपुञ्जो यथा हारः कुमार्याऽस्मै समर्पितः॥ ६८ ॥ तया कनकवत्या च, यथा प्राग्भववैरतः । कूटाख्यानैः पिता पुत्र्या, उपरिष्टात्प्रकोपितः ॥ ६९ ॥ कुमारोऽपि निजावासात्, तयैव सहृत| स्तदा । तेनाहता यथाऽनेशत्पुनः सा नागमद्यथा ॥ ६७० ॥ इत्याद्यशेषं कनकवत्याः प्रोक्तं कथानकम् । ततः सर्वेऽवदन्नेवं, धिग् धिग् च नीचयोषिताम् ॥ ७१ ॥ मृत्वा कर्मकरः सोऽथ, सुन्दरो वटपादपे । भूतो बभूव तत्रैव, पृथ्वीस्थानपुराद्वहिः ॥ ७२ ॥ ततो यदा भ्रमंस्तत्र सम्प्राप्तोऽसौ महाबलः । ज्ञानेनावगतस्तेन, तदा भूतसुपर्वणा | ॥ ७३ ॥ बध्नीतास्य वटे पादौ, भूमौ न लगतो यथा । इति तत्प्रियमित्रस्य स्मृतं तेन वचस्तदा ॥ ७४ ॥ तदे तस्याप्यहं काञ्चित्, पीडां कुर्वे तथाविधाम् । ध्यायन्निति शवस्यास्ये, स्थित्वा भूतो जजल्प सः ॥ ७५ ॥ हंहो मूढ किमेवं मामत्रोद्वद्धं हसस्थलम् । उद्भन्त्स्यसे त्वमप्यत्र, निश्येप्यन्त्यां वटद्रुमे ॥ ७६ ॥ अधोमुखो चोर्ध्वपादो, बहुदुःखं
ational
For Private & Personal Use Only
www.jainelibrary.org