________________
इतो गत्वा समीपस्थं, सरो दुग्धं पिबाम्यहम् । इति जल्पन्ननुज्ञातो, गोपैाववृतेऽथ सः ॥१॥ द्वे दिने क्षुधितोऽतिष्ठ
महमेतदतः पयः । कस्मैचिद्यदि दत्त्वा प्राग् , भुज्यते सफलं ततः ॥ २ ॥ तस्येति ध्यायतश्चित्ते, गच्छतः पुण्य11८८॥
योगतः । मिलितः संयमी मासोपवासी पारणाय यान् ॥ ३ ॥ अहो महान्ति पुण्यानि, यत्प्राप्तोऽद्यैव संयमी । प्रतिलाभ्य तदेनं स्वं, करोमि सफलं जनुः ॥ ४ ॥ ध्यात्वेति पुरतो भूत्वा, महाभक्त्या जगाद सः । गृहाणेदं पयः । साधो!, प्रसीद त्वं ममोपरि ॥ ५ ॥ द्रव्यं क्षेत्रं च कालं च, भावं ज्ञात्वा च साधुना । यथेच्छमाददे दुग्धं, मदने
नार्जितं शुभम् ॥ ६ ॥ मदनोऽपि तमानम्य, मुनिं प्राप्तो जलाशयम् । कृतार्थ मन्यमानः स्वं, दत्तशेषं पयः पपौ । an ७ ॥ उपविश्य ततो यावत् , स सरोदुस्तटे जलम् । पातुं लग्नो द्रुतं तावत्, गतोऽन्तः स्खलितक्रमः ॥ ८ ॥
अगाधसलिले मनो, मृत्वाऽत्र मदनः पुरे। सुतो विजयभूपस्य, जज्ञे दानप्रभावतः ॥९॥दत्तं कन्दर्प इत्यस्य,नामधेयं । क्रमेण सः । पितर्युपरते पृथ्वीनाथोऽत्र नगरेऽभवत् ॥ ६१० ॥ युग्मम् । प्रियमित्रोऽथ सुन्दर्या, सहितो व्यलसत्पुरे । ताभ्यां च रुद्राभद्राभ्यां, चक्रे वैरमनेकधा ॥ ११॥ अन्यदा प्रियमित्रोऽथ, यक्षं प्रति धनञ्जयम् । चचाल सपरीवारः, सुन्दर्या प्रियया समम् ॥ १२ ॥ प्राप्तो यावत् व्रजन्मार्गे, न्यग्रोधालङ्कृतां भुवम् । अभ्यायान्तं मुनिं तावद्ददर्शक
॥
Jnin Education
For Private Personal Use Only
Rainelibrary.org