________________
| धानैर्निशम्यताम् ॥ ८७॥ तवैव नगरे पृथ्वीस्थाने गृहपतिः पुरा । प्रियमित्राभिधो जज्ञे, समृद्धः पुत्रवर्जितः ॥ ८८ ॥ तस्य तिस्रः प्रिया रुद्रा, भद्रा च प्रियसुन्दरी । रुद्रा भद्रा च सोदर्ये, अभूतां स्नेहले मिथः ॥ ८९ ॥ तयोर्द्वयोरपि स्नेह| लेशोऽपि दयितस्य न । एकस्यामेव सुन्दर्या, प्रेमास्यासीदकृत्रिमम् ॥५९०॥ ततस्ताभ्यां महाराटी, न निवृत्ता कदाचन । | द्वयोरपि तयोस्तत्र, सुन्दरीप्रियमित्रयोः ॥ ९१ ॥ प्रियमित्रस्य मित्रं तु, नाम्नाऽभूत् मदनप्रियम् । स पुनः सुन्दरीलुब्धो, नर्म | चक्रे तया सह ॥ ९२ ॥ अथान्यदा सुरूपां तां, रहस्थां प्रियसुन्दरीम् । कामार्थं याचमानं स, प्रियमित्रेण वीक्षितः | ॥ ९३ ॥ ततः कुद्धेन सर्वे तद्वान्धवानां निवेद्य तत् । निर्भर्त्स्य बहुधा तेन, नगरान्निरवासि सः ॥ ९४ ॥ तत्रासीनास्ततः प्रोचुः, स्थविरा: सर्वमप्यदः । साक्षान्नस्तदहो किञ्चित्, ज्ञानस्याविषयं न हि ॥ ९५ ॥ प्रियमित्रीयमित्येतत्, प्रसिद्धमभिधानतः । गृहीतमपरैरस्मत्पुरेऽद्याप्यस्ति मन्दिरम् ॥ ९६ ॥ नृपः प्रोचे कथं जातः, पुरान्निष्कासितोऽथ सः ? । गुरुरूचे चचालैकां, मदनः ककुभं प्रति ॥९७॥ मूढो गच्छन्नटव्यां स निराहारो दिनत्रयम् । तृतीये दिवसे प्राप, मदनो गोकुलं पुनः ॥ ९८ ॥ क्षुधार्त्तनामुना केऽपि, चारयन्तो महीब्रजम् । गोपाला वीक्षिता दुग्धं, प्रार्थयांचक्रिरे तथा ॥ ९९ ॥ दुग्धापितैः कृपावद्भिर्महीषीपयसा भृतः । समर्पितो घटस्तस्मै, पान्याय स्पृहयालवे ॥ ६०० ॥
Jain Educatimational
For Private & Personal Use Only
www.jainelibrary.org