________________
श्रीप्रशमरतिप्रकरणस्योपोद्घातः
विदाकुर्वन्तु विपश्चिद्वरा यदुतैतत् प्रकरणं वाचकवरैः श्रीमद्भिरुमास्वातिवरैर्विहितं, श्रीमन्त उमास्वातिवाचका एके एवैतादृशा यद् श्रीश्वेताम्बरवद् नग्माटैरपि येषां वचनं स्वीक्रियते, न हि नम्राटानामागमनिर्युक्त्यादिके श्रीजिनोत्यनुवादतत्परश्रीगणभृद्भद्रबाहुस्वामि| श्रुतकेवलिप्रभृतिविहिते यथा विप्रतिपत्तिस्तथा श्रीउमास्वातिवाचकपुंगववचसि, अन्यथा न ते श्रीउमास्वातीयं श्रीतत्त्वार्थसूत्रमभिमन्येरन्, यद्यपि ननाः श्रीउमास्वातीयं श्रीतत्त्वार्थसूत्रमभिमन्यते परं तैरेव विरचितानि शेषप्रकरणानि न हि नम्राटानामभिमतानि, दुराग्रहमीनेनैः श्रीतत्त्वार्थसूत्रीय भाष्यमपि तदीयं न तैरभिमतं, यद्यपि अनेकानि विवरणानि श्रीमतस्तत्त्वार्थस्योपर्यंतदेव भाष्यमनुसत्य विहितानि तैः श्रुतनयनारकदेवनिम्रन्थसिद्धविकल्पानां सूत्रेषु, एवं सत्यप्यनुकरणे खोपज्ञभाष्यस्थानंगीकारस्त्वेतेषां खमतकदामहमूल एव, यतो निम्रोल्लिखितानि भाष्यस्थानानि तेषां मतस्य तिरस्कारकराणि, साधूनां धर्मोपकरणानां प्रतिपादकत्वात् श्रावकाणां च सामायिकपौषधातिथि|संविभागेषु श्वेताम्बरीयविधेः प्रतिपादनात् भगवतां जिनानां देशनाया निरूपकत्वाच । इमानि च तानि
यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥ ६॥ मा. का. केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य । कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम् ॥ २३
Jain Education H
ernal
For Private & Personel Use Only
Xhdjainelibrary.org