SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ |मपरत्वं कालकृतं, पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः, पञ्चवर्षाद्दशवर्षः परः । शिक्षा-लिप्यादिग्रहणासेवनादिवा ॥ २१८॥18 द्विचत्वारिंशत्प्रकृतयः पुण्यं, व्यशीतिः पापम् ॥ २१९ ॥ आगमपूर्वो मनोवाक्कायव्यापारः, तस्य योगस्य विपरीतता । गुप्तिर्गोपनं, स्थगिताश्रवद्वारः॥ २२०॥ संवृतात्मनस्तपसा पूर्वार्जितस्य कर्मणः क्षयः । उपधानं-योगोद्वहनादि, तेन नव्यकर्मप्रवेशाभावः ॥ २२१॥ जीवादिषु निश्चयेन परिणामः । सद्भूतमिति ॥ २२२ ॥ शिक्षा-जिनोदितक्रियाकलापाभ्यासः पुनः पुनः॥ २२३ ॥ एतद्विप्रकारं । विस्तराधिगमो-विस्तरपरिच्छेदो *। विपरीतार्थग्राही प्रत्ययो विपर्ययः। समासतो द्वेधा ॥ २२४ ॥ आभिनिवोधिकं-मतिज्ञानम् ॥ २२५ ॥ ज्ञानानां क्रमेणाऽष्टाविंशतिचतुर्दशषद्विभेदा उत्तराः, विषयो-गोचरो मतिश्रुतयोः सामान्यतः सर्वद्रव्येषु सर्वपर्यायेषु ।। अवधिरूपिषु, मनःपर्यायं मनोगतद्रव्येषु, केवलं तु सर्वद्रव्यसर्वपर्यायेषु, आदिशब्दात्क्षेत्रकालादिपरिग्रहः। (विस्तराधिगमाः-विस्तरपरिच्छेदः) एकस्मिन् जीवे युगपदेकादीनि कियन्ति ?, भाज्यानि-भजनीयानि चत्वारि, यावत्केवलावातावपरज्ञानाभावः ॥ २२६ ॥ मतिश्रुतावधयः॥ २२७ ॥ * सम्भाव्यते षड्विंशत्यधिकद्विशततमायाः कारिकाया अयं पर्यायः, तत्रैवास्य शब्दस्य मूले वृत्तौ च पर्यायस्य विद्यमानत्वापादत्र चा विद्यमानत्वात् । Jain Educatiotirtional For Private Personel Use Only M r.jainelibrary.org
SR No.600109
Book TitlePrashamrati Prakarana
Original Sutra AuthorUmaswami, Umaswati
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1940
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy