________________
तेषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तस्य किमालोचनया ?, तामन्तरेणापि तस्य शुद्धत्वात् , यथासूत्रं प्रवृत्तेः, सत्यमेतत् , केवलं याश्चेष्टानिमित्ताः सूक्ष्मप्रमादनिमित्ता वा सूक्ष्मा आश्रवक्रियास्ता आलोचनामात्रेण शुद्ध्वन्तीति तच्छुद्धिनिमित्तमालोचना |१ । तथा समितिप्रमुखाणां सहसाकारतोऽनाभोगतो वा कथमपि प्रमादे सति मिथ्याकरणे-अन्यथाकरणे प्रतिक्रमणं-मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तं क्रियते, तत्र समितयः पञ्च, तद्यथा-ईर्यासमिति षासमितिरेषणासमितिरादानभाण्डमात्रनिक्षेपणासमितिरुच्चारप्रश्रवणखेलसिङ्घानजल्लपारिष्ठापनिकासमितिश्च, प्रमुखग्रहणाद्गुप्त्यादिपरिग्रहः, गुप्तयश्च तिस्रस्तद्यथा-मनोगुप्तिर्वचनगुप्तिः कायगुप्तिश्च, इयमत्र भावना-सहसाकारतोऽनाभोगतो वा ईर्यायां यदि कथां कथयन् ब्रजेत् भाषायामपि यदि गृहस्थभाषया ढडरस्वरेण वा भाषेत एषणायां | भक्तपानगवेषणवेलायामनुपयुक्तो भाण्डोपकरणस्यादाने निक्षेपे वा अप्रमार्जयिता अप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापयिता न | |च हिंसादोषमापन्नः तथा यदि मनसा दुश्चिन्तितं स्यात् वचसा दुर्भाषितं कायेन दुश्चेष्टितं तथा यदि कन्दर्पो वा हासो वा स्त्रीभक्तचौरजनपदकथा वा तथा क्रोधमानमायालोभेषु गमनं विषयेषु वा शब्दरूपरसगन्धस्पर्शलक्षणेष्वभिष्वङ्गः सहसाऽनाभोगतो वा कृतः स्यातत एतेषु सर्वेषु स्थानेषु आचार्यादिषु च मनसा प्रद्वेषादिकरणे वाचा अन्तरभाषादिकृतौ कायेन पुरोगमनादौ तथा इच्छामिथ्यातथाकारादिप्रशस्तयोगाकरणे च मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तमिति २ । तथा शब्दादिषु-शब्दरूपप्रभृतिष्विष्टानिष्टविषयेषु 'रागादिविरचन' रागस्य-अभिष्वङ्गलक्षणस्य आदिग्रहणाद् द्वेषस्य-अप्रीतिलक्षणस्य मनोमात्रेण करणं गुरूणां पुरतः 'साहिति कथयित्वा यद्दीयते मिध्यादुष्कृतमेतत्प्रायश्चित्तं मिश्रमिति भणितं, इयमत्र भावना-नानाप्रकारान् शब्दादीन् विषयान् इन्द्रियविषयीभूताननुभूय कस्यचिदेवं संशयः स्याद् यथा शब्दादिषु विषयेषु रागद्वेषौ गतो वा न वेति, ततस्तस्मिन् संशयविषये मिश्र-पूर्व गुरूणां पुरत आलोचनं तदनन्तरं
Jain Education
For Private
Personal use only