SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Jain Education दार्थ्या वृत्त्या कारणत्वमेवैषामुपदर्शितं भवति, अत एव पष्ठमित्यत्र कारणमेव सम्बन्धितम् ॥ ७३७ ॥ अथातङ्कादीनि षडेवाभोजन| कारणान्याह - 'आयंके' गाहा, आतङ्के-ज्वरादौ रोगे समुत्पन्ने सति न भुञ्जीत, उपवासान् कुर्वतो हि प्रायेण ज्वरादयखुट्यन्ति, उक्तं च - "बलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १ ॥” तथोपसर्गे देवमनुष्यतिर्यक्कृते सजाते सति, तितिक्षया हेतुभूतया उपसर्गसहनार्थमित्यर्थः, उपसर्गश्च अनुकूलप्रतिकूल भेदाद् द्विविधः, तत्र मातापितृकलत्रादिस्वजनकृतोऽनुकूलः, ते हि स्नेहादिना प्रव्रज्यामोचनार्थ कदाचिदुपतिष्ठन्ते, तत्रोपसर्गोऽयमिति मत्वा नाश्रीयात् यतस्तमुपवासान् कुर्वन्तं वीक्ष्य तन्निश्चयावगमनान्मरणादिभयाद्वा मुञ्चन्तीति, प्रतिकूलोपसर्गश्च कुपितराजादिकृतः, तत्रापि न भुञ्जीत, विहितोपवासं हि साधुं समीक्ष्य राजादयोऽपि प्रायेण सञ्जातदद्या मुञ्चन्तीति, तथा ब्रह्मचर्यगुप्तिषु - ब्रह्मचर्यगुप्तिनिमित्तं मैथुनव्रतसंरक्षणार्थमित्यर्थः, उपवासान् हि विदधतः कामः कामं दूरमपक्रामति, यदुक्तम् — ' विषया विनिवर्तन्ते, निराहारस्य देहिनः ।' इति, तथा 'पाणिदयातवहेउ'त्ति प्राणिदयाहेतो:- जीवरक्षणार्थं, जलवृष्टौ महिकापाते सचित्तरजः पातादौ प्रभूतसूक्ष्ममण्डू किकामसिकाकोद्रविकादिसत्त्वसंसक्तायां वा भूमौ प्राणिदद्यानिमित्तमटनं परिहरन् न भुञ्जीत, तथा तपोहेतोः - तपःकरणनिमित्तं, एकद्विश्याद्युपवासकरणेन षण्मासान्तं यावत्तपः कुर्वतो न भोजनसम्भवः, तथा शरीरस्य व्यवच्छेदः - परिहारस्तदर्थं च, इह हि शिष्यनिष्पादनादिसकलकर्तव्यताऽनन्तरं पाश्चात्ये वयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणयोग्यमात्मानं कृत्वा भोजनं परिहरेत् नान्यथा, शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि शरीरपरित्यागार्थमनशन प्रत्याख्यानकरणे जिनाज्ञाभङ्गप्रसङ्गात् संलेखनामन्तरेणार्त्तध्यानादिसम्भवाच्च यदुक्तम् - " देहम्मि असंलिहिए सहसा धाऊहिं खिज्नमाणाहिं । जायइ अट्टज्झाणं सरीरिणो चरिमसमयम्मि ॥ १ ॥ [ देहेऽसंलिखिते सहसा धातुषु क्षीयमाणेषु । For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy