________________
प्रव० सा
नवि० ॥ २०५ ॥
| चिञ्च प्रतिसेवनामपि कुर्यादिति ॥ उक्ता आपाते दोषाः एवमेव संलोकेऽपि तिर्यग्योनिकान् वर्जयित्वा मनुष्येषु द्रष्टव्याः, तिरश्चां हि रोद्धारे & संलोके नास्ति कश्चिदनन्तरोदितो दोषः, मनुष्याणां पुनः स्त्रीपुरुषनपुंसकानां संलोके ये आपाते दोषा उक्तास्त एवं वेदितव्याः, अर्थ तत्त्वज्ञा- कदाचिदात्मपरोभयसमुत्था मैथुनदोषा न भवेयुस्तथाप्यमी सम्भाव्यन्ते यथा केचिदेवमाहुर्यदुत ययैव दिशा उच्चारार्थमस्माकं युवतिवर्गो व्रजति तयैव दिशा एतेऽपि प्रव्रजिता व्रजन्ति, तन्नमस्मदीयां कामपि कामिनीं कामयमाना दत्तसङ्केता वा तदालोके तिष्ठन्ति, तथा नपुंसकः स्त्री वा स्वभावतो वातदोषेण वा विकृतं सागारिकं दृष्ट्वा तद्विषयाभिलापमूर्च्छामापन्ना तं साधुमुपसर्गयेत् तस्मात् त्रयाणामपि संलोको वर्जनीयः, तदेवं चरमभङ्गे आपातसंलोकदोषाः तृतीये आपातदोषाः द्वितीये च संलोकदोषा भवन्ति, प्रथमे पुनः स्थण्डिले ते द्वयेऽप्यापातसंलोकदोषा न संति ततस्तत्र गमनं कर्तव्यं, उक्तं च - "आवायदोस तइए बीए संलोगओ भवे दोसा । ते दोवि नत्थि पढमे तहिं गमणं भणियविहिणा उ || १ ||” १। तथा उपघातः-उड्डाहादि प्रयोजनमस्य तदौपघातिकं स्थण्डिलं, तत् त्रिविधंआत्मौपघातिकं प्रवचनौपघातिकं संयमौपघातिकं च तत्रात्मौपघातिकमारामादि, तत्र हि संज्ञां व्युत्सृजतो यतस्तत्स्वामिनः सकाशात् पिट्टनादिप्रसङ्गः, प्रवचनौपघातिकं पुरीषस्थानं, तद्धि जुगुप्सितमशुच्यात्मकत्वात्, ततस्तत्र संज्ञाव्युत्सर्गे ईदृशा एते इति प्रवचनोपघातः स्यात् संयमौपघातिकमङ्गारादिदाहस्थानं, तत्र हि संज्ञान्युत्सर्जने तेम्यारम्भिणोऽन्यत्रास्थण्डिलेऽग्निज्वालनादि कुर्वन्ति यजन्ति वा तां संज्ञामस्थण्डिले ततश्च संयमोपघात इति, यतश्चैते दोषा भवन्त्यतोऽनौपघातिके स्थण्डिले व्युत्सर्जनीयं एवमन्यत्रापि भावनीयं २ । तथा समं-अविषमं विषमे हि व्युत्सृजतो यतेः पतनं स्यात् तत्र चात्मविराधना, पुरीषं प्रश्रवणं वा प्रलोठत् पट्कायानुपमयतीति संयमविराधना च ३ । तथा 'अज्झुषिरं' यत्तृणादिच्छन्नं न भवति, शुषिरे हि संज्ञादि व्युत्सृजतो वृश्चिकदंदशूकादिदशने
Jain Education
For Private & Personal Use Only
९१स्थण्डि लस्वरूपं
गा. ७०९. ७१०
॥ २०५ ॥
jainelibrary.org