SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ - %A डशकं क्षपितं पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्तेन क्षपयतीत्येष सूत्रादेशः, अन्ये त्वाहुः-षोडश कर्माण्येव पूर्व क्षपयितुमारभते केवलमपान्तरालेऽष्टौ कषायान क्षपयति पश्चात् षोडश कर्माणीति, ततोऽन्तर्मुहूर्तेन नवानां नोकषायाणां चतुर्णा च सज्वलनानामन्तरकरणं, करोति, स्थापना, तञ्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते, तच्चान्तर्मुहूर्तेन पल्योपमासङ्ख्येयभाग-1 मात्रं जातं, ततः प्रभृति बद्ध्यमानासु प्रकृतिषु गुणसक्रमेण तद्दलिकं प्रक्षिपति, तञ्चैवं प्रक्षिप्यमाणं अन्तर्मुहूर्तेन निःशेष क्षीणं, अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति अन्यथा त्वावलिकामात्रं तद्भवति तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसक्रमेण सक्रमयति तदेवं क्षपितो नपुंसकवेदः, ततोऽन्तर्मुहूर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते, तत: षट् नोकषायान् युगपत्क्षपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे सक्रमयति किन्तु सज्वलनक्रोध एव, एतेऽपि च | पूर्वोक्तविधिना क्षिप्यमाणा अन्तर्मुहूर्तेन निःशेषाः क्षीणाः, तत्समयमेव च पुंवेदस्य बन्धोदयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकबद्धं 5 मुक्त्वा शेषदलिकक्षयश्च, ततोऽसाविदानीमवेदको जातः, क्रोधं च वेदयतः सतस्तस्य क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-अश्वकर्णकरणाद्वा किट्टिकरणाद्धा किट्टिवेदनाद्धा च, तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि सज्वलनानामन्तरकरणादुपरितनस्थितौ करोति, अथ किमिदं स्पर्धकमिति ?, उच्यते, इह तावदनन्तानन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान जीवः कर्मतया गृहाति, तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्यापि रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति अपरस्तानप्येकाधिकान् अन्यस्तु व्यधिकान् एवमेकोत्तरया वृद्ध्या तावन्नेयं यावदन्यपरमाणुरभव्यानन्तगुणान सिद्धानन्तभागेनाधिकान् रसभागान् प्रयच्छति, तन जघन्यरसा ये केचन परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेत्युच्यते AR CARNA SSCR4oste - Jan Educh an inte For Private Personal Use Only Mininelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy