________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ १६९ ॥
कप्पं वा उविंति गच्छं वा । पडिवजमाणगा पुण जिणस्सगासे पवज्जंति ॥ ६०९ ॥ तित्थयरसमीवासेवगरस पासे व नो व अन्नस्स । एएसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ ६१० ॥ 'परी'त्यादिगाथानवकं, परिहरणं परिहारः- तपोविशेषस्तेन चरन्तीति पारिहारिकाः, ते द्विधा - निर्विशमानका निर्विष्टकायिकाश्च तत्र निर्विशमानका - विवक्षिततपोविशेषासेवकाः निर्विष्टकायिकाः- आसेवितविवक्षिततपोविशेषाः, इह च नवको गणः - चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिण एकः कल्पस्थितो वाचनाचार्य:, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित् कल्पस्थितोऽवस्थाप्यते, तेषां च परिहारिकाणां निर्विशमाननिर्विष्टकायिकानां तपस्त्रिधा - जघन्यं मध्यममुत्कृष्टं च तच्च त्रिविधमपि शीतकाले उष्णकाले वर्षाकाले च प्रत्येकं भणितं धीरैः - तीर्थकृद्भिरिति ॥ ६०२ ॥ तत्र ग्रीष्मकाले तप आह— 'तत्र' तेषु त्रिषु कालेषु मध्ये ग्रीष्मे - उष्णकालेऽतिरुक्षत्वाज्जघन्यं तपश्चतुर्थ- एक उपवास: मध्यमं पुनः षष्ठं- द्वावुपवासौ अष्टमं त्रय उपवासा उत्कृष्टं तपो भवति, तपः शब्दस्य सूत्रे सर्वत्र प्राकृतत्वात् पुंस्त्वं, इत ऊर्द्ध शिशिरे - शीतकाले तपः प्रवक्ष्यामि ॥ ६०३ ॥ तदेवाह - शिशिरे - शीतकाले ग्रीष्मतः किञ्चित्साधारणे पुनर्जधन्यादि - जघन्यमध्यमोत्कृष्टं यथाक्रमं पष्ठादिदशमपर्यन्तं तपो भवति कोऽर्थः ? - जघन्यं षष्ठं मध्यममष्टमं उत्कृष्टं दशममुपवासचतुष्टयलक्षणमिति, तथा वर्षासु साधारणे कालेऽष्टमादिद्वादशपर्यन्तं क्रमेण जघन्यमध्यमोत्कृष्टं तपो ज्ञेयं, कोऽर्थः १ - जघन्यं अष्टमं मध्यमं दशमं | उत्कृष्टं च द्वादशमुपवासपश्च कलक्षणं तप इति ।। ६०४ || पारण के त्रिष्वपि कालेषु - प्रीष्मशीतवर्षालक्षणेषु तेषामाचाम्लं भवति, तथा संसृष्टादयः सप्त मिक्षा भवन्ति, तत्र पञ्चसु उत्तरासु - उद्धृतादिषु ग्रहो - ग्रहणं, संसृष्टासंसृष्टे आद्ये द्वे मिक्षे वर्जयित्वा उद्धृतादयः पञ्चैव ग्रहीतव्या इत्यर्थः पुनरपि विवक्षितदिनेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः - अद्य मया द्वे एव विवक्षिते भिक्षे ग्राह्ये इत्येवंस्वरूपः, तत्राप्येका भक्ते एका
Jain Educationonal
For Private & Personal Use Only
६९ परिहारविशुद्धिः
गा. ६०२
१०
॥ १६९ ॥
jainelibrary.org