SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ विंशतिवर्षसहस्रैश्च न्यूना ग्राह्या, एषा चैकसागरोपमशतादिककाल एककोटेरुत्सारित एवं पूर्यते, यथा चतुष्पञ्चाशत्सागरोपमाणि ताव- | द्वासुपूज्यस्य, त्रिंशत् विमलस्य, नव अनन्तस्य, चत्वारि धर्मस्य, एवं सप्तनवतिसागरोपमाणि जातानि, तदनु शान्तिनाथस्य त्रीणि सागरोपमाणि, परं न तानि सम्पूर्णानि, किन्तु चतुर्भागीकृतस्य पल्योपमस्य सम्बन्धिभित्रिभिर्भागैन्यूनानि, तदनु द्वौ भागौ चतुर्भागीकृतस्य पल्योपमस्य सम्बन्धिनौ कुन्थुनाथस्य, एको भागः पल्यसम्बन्धी श्रीअरजिनस्य, सोऽपि चैको भागो न परिपूर्णः, किन्तु वर्षाणां कोटिसहस्रेणैकेन न्यूनः, स च कोटिसहस्रो मल्लिजिनस्य, एवं च श्रेयांसस्य सागरोपमकोटेर्यदपकृष्टं सागरोपमशतमासीत्तदिदं परिपूर्णमभूत् , इदानीं षट्षष्टिवलक्षाः षड्विंशतिवर्षसहस्राश्च प्रतिपाद्यन्ते-तत्र चतुष्पञ्चाशल्लक्षाः सुव्रतस्य षट् लक्षा नमिजिनस्य पञ्च लक्षा नेमिजिनस्य मिलिताः पञ्चषष्टिवर्षलक्षाः, अर्धाष्टमशतसमधिकव्यशीतिसहस्राः पार्श्वजिनस्य, सार्धे द्वे शते श्रीवीरजिनस्य, एवं श्रीपार्श्ववीरयोरन्तरमान| मीलनेन चतुरशीतिसहस्रा जाताः, शेषाश्च एकविंशतिवर्षसहस्रप्रमिता दुष्षमासम्बन्धिन एकविंशतिवर्षसहस्रप्रमिता अतिदुष्षमासम्बन्धिनो द्विचत्वारिंशत्सहस्रास्तेम्यः षोडश सहस्राः पश्चाद्भणितचतुरशीतिसहस्रेषु क्षिप्यंते, ततः समजनि लक्षं, तच्च पूर्वोक्तपञ्चषष्टिवर्षलक्षेषु क्षिप्तमिति जाताः षट्षष्टिवर्षलक्षाः षड्विंशतिः सहस्राश्च, ततः श्रेयांसजिनकोटौ न्यूनायां सागरशतं षट्षष्टिलक्षाः षड्विंशतिवर्षसहस्राश्च क्षिप्ता इति परिपूर्णा कोटिः, एवं च जाता एका सागरोपमकोटाकोटिरिति ॥ सम्प्रति प्रकारान्तरेण सर्वतीर्थकृञ्चक्रवर्तिवासुदेवानामन्तराणि यस्य तीर्थकृतः काले अन्तरे वा यश्चक्रवर्ती वासुदेवो वा बभूवेत्येवंरूपाणि वपुःप्रमाणं सर्वायुश्च विनेयव्युत्पत्त्यर्थमाह बत्तीसं घरयाई काउं तिरियाअयाहि रेहाहिं । उड्डाअयाहिं काउं पंच घराइं तओ पढमे ॥४०६॥ पन्नरस जिण निरंतर सुन्नदुगं तिजिण सुन्नतियगं च । दो जिण सुन्न जिणिंदो सुन्न जिणो सुन्न Jain Educati onal For Private & Personel Use Only H www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy