________________
दीनां तरूणामङ्कुरा अनन्तकायिकाः ॥ २४१ ॥ अनंतकायपरिज्ञानार्थ लक्षणयुक्तिमाह-'गूढसिरे'त्यादि, गृढानि-प्रकटवृत्त्या अज्ञायमानानि सिरा:-सन्धयः पर्वाणि च यस्य पत्रकाण्डनालशाखादेस्तत्तथा, तथा यस्य भज्यमानस्य-शाखादेखोट्यमानस्य पत्रादेः |समः-अदन्तुरो भङ्गः-छेदो भवति तत्समभङ्ग, तथा छिद्यमानस्यैव न विद्यन्ते हीरकाः-तन्तुलक्षणा मध्ये यस्य तदहीरकं, तथा छित्त्वा | गृहादावानीतं शुष्कताद्यवस्थाप्राप्तमपि जलादिसामग्री प्राप्य गडूच्यादिवत् पुनरपि यत्प्ररोहति तच्छिन्नरुह, तदेतैर्लक्षणैः साधारणं | शरीरं ज्ञेयं, अनन्तकायिकमित्यर्थः । एतल्लक्षणव्यतिरिक्तं च प्रत्येकशरीरमिति ॥२४२॥ पुनरनन्तकायिकस्य लक्षणान्तरमाह-'चकं वे'त्यादि, चक्रमिव-अदन्तुरतया कुम्भकारचक्राकारमेकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलस्कन्धत्वशाखापत्रपुष्पादेः भवति |तं मूलादिकमनन्तजीवं विजानीहीति सम्बन्धः. तथा प्रन्थिः-पर्व सामान्यतो भङ्गस्थानं वा स यस्य चूर्णघनो भवति, कोऽर्थः - | यस्य भज्यमानस्य ग्रन्थेः शुभ्रो घनश्च! उट्टीयमानो दृश्यते स वनस्पतिरनन्तजीवानां साधारणमेकं शरीरमित्यर्थः, कथं पुन४. रसौ समं भज्यत इत्यत्र दृष्टान्तमाह-पृथ्वीसदृशभेद, अत्र पृथ्वी-केदाराद्युपरिवर्तिनी शुष्ककोप्पटिका श्लक्ष्णखटिकानिर्मितवर्तिका | दवा गृह्यते, यथा तस्या भज्यमानायाः समः-अदन्तुरो भेदो भवति एवं वनस्पतिरपि चक्राकारं समं यो भज्यत इति भावः ॥२४॥
पुनर्लक्षणान्तरमनन्तकायिकस्याह-'गूढसिरे'यादि, यत्पत्रं सक्षीरं निःक्षीरं वा गूढसिराकं-अलक्ष्यमाणसिराविशेषं भवति, यदपि च 'प्रतापसन्धि' प्रकृष्टस्तापः-उष्मा येषु एवंविधाः सन्धयो यस्य तत्प्रतापसन्धि 'पणट्ठसंधि'त्ति पाठे तु प्रणष्टसन्धि-सर्वथाऽनुपलक्ष्य-14 माणपत्रार्धद्वयसन्धि यत् अनन्तजीवं तद्विजानीहौति ॥ २४४ ॥ इदानीं वर्जनीयवस्तून्याह
पंचुम्बरि चउविगई हिम विस करगे य सव्वमट्टी य । रयणीभोयणग चिय बहबीय
Jain Educatiu
For Private & Personel Use Only
(Alww.jainelibrary.org