SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आधाकर्मानुमोदनाप्रकार मध्ये विनाशितः, राजा कोपावेशात् हेरिकांस्तत्र मुश्चति स्म, तत्र केऽपि लोका धन्य इति कथयन्ति, येन मनुष्यजन्मनि राजान्तःपुरिकाः भुक्तेति तेषां वधो जातः, केऽप्यधन्योऽयमिति वदन्ति, येन स्वामिकलत्रं जननीसममित्यज्ञानवर्तव चक्रे, तेषामवधः पूजा च, जाताः। गाथार्थस्त्वयम् , राजावरोधापराधे यैराभरणैर्विभूषितस्तैरिव विभूषितो नगरमध्ये घातितः, ततः कार्पटिकवेषधारिणः खोला:-हेरिका राज्ञा नियुक्ताः, लोकानां च धन्याधन्यकथा, ततो धन्यकथाकारिणां विनाश इतरेषां तु पूजा इति, दार्टान्तिकयोजना स्वयं भाव्या ॥१२७ ।। अनुमोदनाप्रकारमाहसाउं पज्जत्तं आयरेण काले रिउक्खमं निद्धं । तग्गुणविकत्थणाए अभुंजमाणेऽवि अणुमन्ना ॥१२८॥ ___ आधाकर्मभोजिनमुद्दिश्य केचिदेवं त्रुवते, एते स्वादुमन्योऽन्यं लभन्ते, पर्याप्तं-परिपूर्णमादरेण काले-भोजनवेलायां ऋतुक्षम शिशिरादिऋतुयोग्यं स्निग्धं, न तु वयमिति, तद्गुणविकथनया-तद्गुणप्रशंसनया अभुञ्जानेऽपि अनुमन्या-अनुमोदना | भवति ॥ १२८ ॥ मूलद्वारगाथायां " आहाकम्मे नामा" (नि. ९४ ) इति व्याख्यातम् , अथ " एगट्ठ" इत्याहआहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य ।जह वंजणनाणत्तं अत्थेणऽवि पुच्छए एवं ॥१२९॥ अत्र परः पृच्छति, आधाकर्म अधःकर्म आत्मघ्नमात्मकम्र्मेति प्रतिषेवणादीनामात्मकर्मण्यन्त तत्वाच्चतुर्षु नामसु यथा व्यञ्जनै नात्वं तथा अर्थेनापि नानात्वं किं वा नेति ?, अयं भावः-आधाकादिनाम्नां व्युत्पत्तिनिमित्तं पृथग २ उक्तं, यथा तथा प्रवृत्तिनिमित्तमपि तथैव, अत्रोत्तरमाह ।।१२९॥ अत्र शिष्यबुद्धिवृद्धये सामान्यतो नामविषयां चतुर्भङ्गिकामाह JainEducation int For Private & Personal Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy