________________
Jain Education Intern
प्रतिषेवणदोष एव न स्यात् प्रतिश्रवणाख्यः, अत्रोच्यते- यावन्निमन्त्रितः सन् भोजनमभ्युपगच्छति तावन्नाद्यापि प्रतिषेवणमिति प्रतिश्रवणदोष एव ॥ १२२ ॥ अथामीषां भोजकादीनां कस्को दोषः स्याद्, अत आह—
भुंगा का उ बीयस्स वाइओ दोसो । तइयस्स य माणसिओ तीहिं विसुद्धो चउत्थो उ ॥ आनतो मोजकचैतौ द्वावपि कर्म्मणा - आनयन भोजनरूपया कायक्रियया दोषवन्तौ, द्वितीयस्य वाचिको दोषस्तृतीयस्य मानसिक चतुर्थस्त्रिभिर्दोषैर्विप्रमुक्त इति ॥ १२३ ॥ अथ विशेषमाह - पडिसेवण पडिसुणणा संवासऽणुमोयणा उ चउरोवि । पियमारग रायसुए विभासियव्वा जइजणेऽवि ॥
पितृमारके राजसुते प्रतिषेवण प्रतिश्रवण संवासनानुमोदनारूपाश्चत्वारोऽपि दोषा घटन्ते, तथाहि तस्य पितृमारणाय प्रवृत्तत्वात् प्रतिषेवणं, “ वयं तव सहाया " इति भटवचनं प्रतिपद्यमानस्य प्रतिश्रवणं, तैरिव सार्द्ध संवसनं संवास:, तेषु बहुमानदानादिनाऽनुमोदना, एवं यतिजनेऽप्याधाकर्म्मभोक्तरि विभाषितव्याः - योजनीयाः, तदेवं यत्र प्रतिषेवणं तत्र नियमतत्वारोऽपि दोषाः, प्रतिश्रवणे च केवले त्रयः, संवासे द्वौ, अनुमोदना तु केवलैव, अत एवादिपदं गुरु शेषाणि तु पदानि लघुलघुलघुकादिनीति ॥ १२४ ॥ अथ संवासे पल्लीदृष्टान्तमाह ( दृ० ७ )
मिट्ठा चोरावणिया वयं न चोरत्ति । न पलाया पावकरत्ति काउं रन्ना उवालद्धा ॥१२५॥ बसन्तपुरेऽरिमर्दनो राजा प्रियदर्शनादेवीयुक्तो राज्यं प्रशास्ति, तत्रासन्ना भीमा नाम पल्ली, तस्यां बहवो दस्यवो
For Private & Personal Use Only
आधाकम
दोषतर
तमता,
पल्लिदृष्टा
न्तश्व
www.jainelibrary.org