________________
Jain Education Internal
गाथाचतुष्टयं लग्नं, प्रशस्तो प्रशस्तश्च मावपिण्डः, प्रत्येकमेकविधादिको दशविध इति, प्रथममेकविधो यावद्दशविध इत्यर्थः, तथैवाह - ' संजम ' त्ति, संयम एवैकः प्रकारः प्रशस्त भावपिण्ड इति शेषभेदानामत्रैवान्तर्भूतत्वात् विद्याचरणे ज्ञानक्रिये द्विप्रकारः, सम्यक्त्वं ज्ञानेऽन्तर्भूतं ज्ञानादित्रिकं ज्ञानदर्शनचारित्ररूपं तु त्रिविध इति, यो यथा प्रतिपद्यते तस्य तथा कथ्यत इति, चतुर्विधः पिण्डो ज्ञानदर्शनतपः संयमाः, पञ्चविधः पञ्च व्रतानि षड्विधः षड् व्रतानि, रात्रिभोजनस्य पृथक्करणात्, सप्तविण्डे-सप्त पिण्डेषणाः सप्तावैग्रह प्रतिमाथ, तत्र पिण्डैषणाः पानैषणाच संसृष्टादय:-“ संसेदुमसंस
१ अवग्रहप्रतिमाः सप्त, अवगृह्यते इत्यवग्रहस्तस्य प्रतिमा अभिग्रहाः, तत्र पूर्वमेवैवंभूतः प्रतिश्रयो मया प्राह्यो नान्यथाभूत इति विचिन्त्य तमेव याचित्वा गृहतः प्रथमा १ | तथा यस्यैवंभूतोऽभिप्रहो भवति - अहं खल्वन्येषां कृतेऽवग्रहः प्रहीष्यामि, अन्यैव गृहींतेऽवग्रहे वत्स्यामीति द्वितीया, तत्र प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां साम्भोगिकानां चोयुक्तविहारिणां यतस्तेऽन्योsन्यार्थ याचन्ते २ । अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीते तु न स्थास्यामीत्येषाऽहालन्दिकानां यतस्ते सूत्रावशेषमाचार्यादभिकान्त आचार्यार्थं तं याचन्ते ३ । अहमन्यार्थमवमहं न याचिध्ये, अन्यावगृहीते तु वत्स्यामीति, एषा गच्छ एवोयुक्तविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वतां ४ । आत्मकृतेऽवमहं याचिध्ये न परार्थ, एषा जिनकल्पिकस्य ५ । यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादिसंस्तारकं ग्रहीष्यामि, अन्यथोत्कटुक उपविष्टो वा रात्रि गमिष्यामीत्येषा जिनकल्पिकादेः ६ । सप्तमी स्वैषैव पूर्वोक्ता नवरं यथासंस्तृतमेव शिलादि ग्रहीष्यामि नान्यदिति ७ ।
२ व्याख्या- असंसृष्टा हस्तमात्राभ्यां चिन्त्या, असंसट्टे हत्थे असंसट्टे मत्ते, अखरंटिअत्ति वृत्तं भवइ, एवं गृहतः प्रथमा,
For Private & Personal Use Only
भावपिण्ड विमर्शः ।
www.jainelibrary.org