________________
क्षमारत्नीयावचूर्युपेता
अप्काबप्रयोजनम्।
श्री.
पिण्डनियुक्तिः।
एए उ अणाएसा तिन्निवि कालनियमस्सऽसंभवओ।लक्खेयरभंडगपवणसंभवासंभवाईहिं॥२०॥
तुशब्द एवकारार्थे भिन्नक्रमश्च, तत एते त्रयोऽप्यनादेशा एव, कुत ? इत्याह-कालनियमस्यासम्मवात, न हि विन्द्वपगमादौ कालनियममिति कथमित्याह-रूक्षेतरभाण्डपवनसम्भवासम्भवादिभिः, आदिशब्दाचिरकालसलिलभिन्नत्वाभिन्नत्वादिपरिग्रहः, अयं भावः-प्रथमादेशवादिनां मते रूक्षे भाजने शीघ्र बिन्दवः शोषमुपयान्ति, स्निग्धे च चिरकालं तिष्ठन्ति, ततः संशय एव, द्वितीयादेशवादिना तु मते बुद्दा अपि खरपवनेन झटिति शाम्यन्ति, पवनाभावे तु चिरमपि तिष्ठन्ति, ततः संशय एव, तृतीयादेशवादिनां मते तु तन्दुलाश्चिरकालजलभिन्ना इन्धनादिसामग्रीयुक्ताः शीघ्रमेव निष्पद्यन्ते, शेषास्तु मन्दं, ततस्तथैव निर्णयाभाव इति, इत्थं त्रयोऽप्यनादेशा एवेति ॥ २० ॥ प्रवचनाविरोधी क आदेशः प्रमाणमित्याहजाव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो । होइ पमाणमचित्तं बहुपसन्नं तु नायवं ॥ २१॥ | ____ यावत्तन्दुलोदकं न बहुप्रसन्न-नातिस्वच्छीभूतं तावन्मिश्रं ज्ञेयं, एषोऽत्रादेशः प्रमाण, न शेषो भवतीति, यत्तु बहुप्रसन्नंअतिस्वच्छीभूतं तदचित्तं ज्ञातव्यम् ॥ २१ ॥ अचित्तमेवाहसीउण्हखारखत्ते अग्गीलोणूसअंबिलनेहे । वुक्कंतजोणिएणं पओयणं तेणिमं होइ ॥२२॥ ___अकायाभिलापेन प्रागिव व्याख्येया ॥ २२ ॥ प्रयोजनमाहपरिसेयपियणहत्थाइधोवणं चीरधोवणं चेव। आयमण भावधुवणं एमाइ पओयणं बहुहा ॥ २३॥
॥५॥
Jain Education inten
For Private
Personel Use Only
Drww.jainelibrary.org