SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Jain Education तावत्तं भूमौ निपतितं खण्डयुक्तं घृतबिन्दु मक्षिकाः समागत्याशिश्रियन्, तासां च भक्षणाय प्रधाविता गृहगोधिका, गृहगोधिकाया अपि वधाय प्रधावितः सरटः, सरटस्यापि च भक्षणाय प्रधावति स्म मार्जारी, तस्यापि च वधाय प्रधावितः प्राचूर्णकः × × × XXX तदुक्तमेवानुष्ठानं मयाऽनुष्ठातव्यमित्यादि विचिन्त्य संसारविमुखप्रज्ञो मुक्तिवनिता श्लेषसुखलंपटः सिंह इव गिरिकन्दराया निजप्रासादाद्विनिर्गत्य धर्मघोषस्य साधोरुपकण्ठं प्रत्रज्याममहीत्, स च महात्मा शरीरेऽपि निःस्पृहो यथोक्तभिक्षाग्रहणादिविधिसेवी संयभानुष्ठानपरायणः स्वाध्याय भावितान्तः करणो दीर्घकालं संयममनुपालय. जातप्रतनुकर्मा समुच्छ लितदुर्निर्वार्य वीर्य प्रसरः क्षेपकश्रेणिमारुह्य घाति कर्मचतुष्टयं समूलघातं इत्वा केवलज्ञानलक्ष्मी मासादिवान्, ततः कालक्रमेण सिद्ध इति ।। ६२८ ॥ उक्तमेषणा द्वारं, संप्रति संयोजनादीनि द्वाराणि वक्तव्यानि तानि च प्रासैषणारूपाणीति प्रथमतो प्रासैषणाया निक्षेपमाह नाठवणा दवि० || ६२९ ॥ प्र सैषणा चतुर्द्धा तद्यथा-नामप्रासैषणा स्थापनामा सैषणा द्रव्ये द्रव्यविषया प्रासैषणा भावेभावविषया प्रासैषणा, तत्र नामग्रासैषणा स्थापनाप्रासैषणा द्रव्यमासेषणाऽपि यावद्भव्यशरीररूपा महणैषणेव भावनीया, ज्ञशरीरभव्यशरीरव्यतिरिक्तायां तु प्रासैषणायां मत्स्योदाहरणं दृष्टान्तः, भावविषया पुनर्मासैषणा द्विघा, तद्यथा - आगमतो नोआगमतश्च तत्रागमतो ज्ञाता तत्र चोपयुक्तः, नोआगमतो द्विधा, तद्यथा प्रशस्ताऽवशस्ता च × × × XXX मांसगन्धमाघ्राय तद्भक्षणार्थं गलस्य समीपमुपागत्य यत्नतः पर्यन्ते २ सकलमपि मांस खादित्वा पुच्छेन च गलमाहत्य दूरतोsपचक्राम, मत्स्यवन्धी च गृहीतो गलेन मत्स्य इति विचिन्त्य गलमाकृष्टवान् पश्यति मत्स्य मांसपेसीरहितं गलं, भूयोऽपि गलं प्रचिक्षेप, तथैव च स मत्स्यो मांसं खादित्वा पुच्छेत च गलमाहत्य पलायितवान् एवं त्रीन् वारान् मत्स्यो मांसं खादितवान् न च For Private & Personal Use Only परि०१० माणिक्य शेखरीय दीपिकाया अन्य भागः। www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy