________________
परि०१० माणिक्यशेखरीयदीपिकाया आद्यमाग
क्षारेण समलमप्यऽम्बु प्रसन्नं स्यात् , स्वच्छाम्भसा बाऽऽचार्यादिवासांसि सुतेजांसि स्युः, एवमपि क्षारः क्षेपः ॥ ३२ ॥ अथ धावनक्रमः
गुरुपच्चखाणि ॥ ३३ ॥ गुरुपत्याख्यानिग्लानशक्षादीनां पूर्व धावनं कुर्यात् , ततः आत्मनः, विनयमूलत्त्वार्द्धर्मस्य, अविनीतस्य गच्छवासाभावाचारित्राभावः, ततो धावनप्रवृत्तेनर्षिणाऽऽदौ गुरुणां-आचार्याणां वस्त्राणि क्षाल्यानि, ततः प्रत्याख्यानिना, क्षपकादीनां ततः ग्लानानां, ततः शैक्षाणां-नवदीक्षाणां, आदेर्बालादीनां, मोऽलाक्षणिकः, तत आत्मनः, गुर्वादीनां वस्त्राणि, त्रिधा-यथाकृतान्यल्पपरिकर्माणि परिकर्माणि च, तत्र यानि परिकर्मरहितान्येव तथारूपाणि लब्धानि तानि यथाकृतानि, यान्येकदा खण्डित्वा सीवितानि तान्यरुपपरिकर्माणि, यानि बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, तत्र क्रमः, पूर्व सर्वेषां यथाकृतानि xx
xxx छायातपे शोषयेत् , परिभोगेषु तथा शोधितेष्वपि कर्हिचिद् यूका स्यात् , धावनेऽपि सा कथञ्चिज्जीविता तदा कश्चितापेन भियते, तद्रक्षायै छायायां शोषयेत् , इतराणि स्वातपे, दोषाऽभावात् , तानि च छायायामातपे च विसारितानि निरन्तर प्रेक्षेत, येन न कोऽपि लाति, इह पूर्वोक्तविधिना यतनया धाव्यमानेषु वस्त्रेषु वायुय्कादिविराधनादोषः स्यादेव, तच्छुयै साधोर्गुरुणा एककल्याणसंज्ञं तपो देयं ॥ ३४ ॥ एवं सप्रपञ्चमकायपिण्डः, तेजस्कायपिण्डमाह
तिविहो तेउकाओ०||३५॥ त्रिविधस्तेजस्कायः सचित्तो मिश्रोऽचित्तः, सचित्तः पुनर्द्विधा निश्चयतो व्यवहारतश्च ।। ३५॥ यथा
इगपागाईणं०॥ ३६ ॥ इष्टकापाकः स्पष्टः, आदेः कुम्भपाकेक्षुरसपाकादिचुह्याद्यात्तः, तेषां बहुमध्यभागे विद्युदादिषु-विद्युदुकाप्रभृतिषु तेजस्कायो निश्चयतः सचित्तः, शेषोऽशारादिः, अंगारो-ज्वालाहीनोऽग्निः, आदेः ज्वालादिः, व्यवहारसचित्तः, मुर्मुरःकारीषोऽग्निः, आदेर विध्यातादिः, ईदम्मिश्रः ॥ ३६ ॥ अचित्ततेजस्का xxx
Jain Education Intimulana
For Private & Personel Use Only
www.jainelibrary.org