SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter दशमं परिशिष्टम् । माणिक्यशेखरसूरिकृता पिण्डनिर्युक्तिदीपिका | आद्यभागः श्री आचारांगे द्वितीयश्रुतस्कन्धे आयं दशवैकालिके पंचमं पिण्डैषणाध्ययनं, अस्य निर्युक्तिर्महार्थत्वात् श्रीभद्रबाहुणा पृथकृता, सा पिण्डनिर्युक्तिरितिप्रसिद्धा, अस्या अर्थमात्रं कथामात्रं च लिख्यते, या पिण्डेषणानिर्युक्तिर्दशवैकालिकपंचमाध्ययनस्यास्ति सा स्तोकार्था एषा तु विस्तृतार्था, पिण्डैषणाया निर्युक्तिः पिण्डनिर्युक्तिरिति मध्यपदलोपिसमासः, मंगलं तु " वंदितु सबसिद्धे " इत्यादिना आचारनिर्युक्तौ शस्त्रपरिज्ञाध्ययने यच्च श्रीभद्रबाहुणोक्तं विनशांत्यै, अथार्थाधिकारसंग्रहगाथामाह— पिण्डे उग्गम उपाय ● ॥ १ ॥ पिण्डः संघाते, पिण्डनं पिण्डः बहूनां सं ' ( समुदायः ) x x x xXx (सुकुमारिकादीनां खण्डाद्यैः सह योजनं, सा द्विधा द्रव्यभावाभ्यां ४, ततः प्रमाणमाहारस्य वाच्यं, ५, चः समुच्चये, ततः अङ्गारदोषः ६, ततो धूमदोषः ७, ततः कारणाद्याहारस्य भोजन ( क ) भोजनयोर्वाच्यानि ८ अष्टधेति अष्टार्थाधिकारैः पिण्डनिर्युक्ते :पिण्डैषणाया निर्युक्तिर्वाच्या, पिण्डायंस्त्वाद्यो भिन्न एव, पिण्डेषणाध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि तत्र नामनिष्पन्ने निक्षेपे पिण्डेषणाध्ययनं नाम, तत्राध्ययनं प्राग् द्रुमपुष्पिकाध्ययने व्याख्यातं पिण्ड एषणा च वाच्या, तेन सम्बन्धेनायाता, आदौ पिण्डव्याख्या ॥ १ ॥ तत्त्वमेदपर्यायैव्र्व्याख्येति पिण्डपर्यायानाह १ यस्याः प्रतेरियं प्रतिकृतिः कृताऽस्ति सा जीर्गप्रायत्वादवचूर्या बहुशः स्थानेषु खण्डिता द्रश्यते, अतः तत्र तत्र स्थानेषु एतचिन्हं कृतमस्ति । For Private & Personal Use Only - परि० १० माणिक्य शेखरीय दीपिकाया आद्यभागः । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy