________________
अनन्तरपरम्परविमागे पृथ्वीकायादीनां भङ्गाः ।
४ द्वितीया, तथा मिश्रे मिश्रं १ अचित्ते मिश्रं २ मिश्रे अचित्तं ३ अचित्ते अचित्तमितितृतीया ॥ ५४० ॥ अथात्रैवानन्तरपरम्परविभागमाहपुढवी आउकाए तेऊवाउवणस्सइतसाणं । एकक दुहाणंतर परंपरगणमि सत्तविहा ॥ ५४१॥ ।
प्रथिव्यादीनां सचित्तानां प्रत्येकं सचित्तपृथिव्यादिषु निक्षेपः सम्भवति, यथा पृथ्वीकायस्य निक्षेपः पोढा, तथाहिपृथ्वीकायस्य पृथ्वी काये निक्षेप इति प्रथमभेदः, एवं पश्चस्वपि, एवमकायादीनामपि निक्षेपः प्रत्येक पोदा भावनीयः सर्व-सङ्ख्या ३६ भङ्गाः, एकेकोऽपि मङ्गो द्विधा-अनन्तरं परम्परया च, केवलमग्निकाये पृथिव्यादीनां निक्षेप: सप्तधा, एतच्चाग्रे वक्ष्यति ॥ ५४१ ॥ अथ पृथ्वीकायस्य पोढावं सूत्रकृत् साक्षादाहसच्चित्त पुढविकाए सच्चित्तो चेव पुढविनिखित्तो । आऊतेउवणस्सइसमीरणतसेसु एमेव ॥५४२॥
व्याख्यातैव ॥ ५४२ ॥ एवं शेषकायेष्वप्यतिदेशमाहएमेव सेसयाणवि निक्लेवो होइ जीवकाएसुं । एक्कको सट्ठाणे परठाणे पंच पंचेव ॥ ५४३ ॥ ___ एवमेव शेषाणामपि-अप्कायादीनां जीवनिकायेषु-पृथिव्यादिषु निक्षेपो भवति, एकैको भङ्गः स्वस्थाने, शेषाः पञ्च २ परस्थाने, यथा पृथ्वीकायस्य पृथ्वीकाये निक्षेप एको मङ्गः स्वस्थाने, अप्कायादिषु पञ्चसु परस्थाने, एवमकायादीनामपि भावनीय, तदेवं प्रथमचतुर्भङ्गिकायाः सचित्ते सचित्तमित्येवंरूपे प्रथमे भेदे षट्त्रिंशद्भवाः सम्भवन्ति ॥ ५४३ ॥ अथ प्रथम
Jain Education Intematonai
For Private & Personel Use Only
www.jainelibrary.org