SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter ( दृ० ) कुसुमपुरे चन्द्रगुप्तो राजा, मन्त्री चाणक्यः, तत्र जङ्घावल परिक्षीणाः सुस्थितामिधाः सूरयः, अन्यदा तत्र दुर्भिक्षमपतत्, ततः सूरिभिः समृद्धशिष्यः सुभिक्षदेशे प्रेषणाय सूरिपदे स्थापितः, विद्यामन्त्राद्येकान्ते तस्मै दातुमारब्धं, तत्र च क्षुल्लद्वयेनाहशी करणाजनव्याख्यानं श्रुतं, समृद्धसूरिर्गच्छसहितोऽन्यत्र जगाम, सूरयस्तत्र स्थिताः, अथ कतिपय दिवसैस्तत् क्षुल्लकयुगं गुरुस्नेहेन तत्र जगाम, गुरवो यत्किमपि भिक्षां लभन्ते तद्विभज्य क्षुल्लकद्वयेन सह भुञ्जते, तत आहारापूर्णतया सूरीणां दौर्बल्यमभवत्, ततः क्षुल्लद्वयेनाअनादृष्टत्वेन चन्द्रगुप्तेन सह भुजते, राज्ञः कशत्वमजायत, चाणक्यपृच्छायां राजाऽऽह - परिपूर्णाहारालाभ इति, ततञ्चाणक्येनानुमानेन ज्ञात्वाऽञ्जनसिद्धपरिज्ञानाय भोजनमण्डपेऽतीव श्लक्ष्ण इष्टकाचूर्णो विकीर्णो, दृष्टानि मनुष्यपदानि ततोऽन्यदिने भोजनवेलायां द्वारं पिधाय मध्येऽतिधूमश्चक्रे, तेनाञ्जनं नयना - श्रुभिः सह गलितं प्रत्यक्षौ जातौ क्षुल्लकौ कृता चन्द्रगुप्तेनात्मजुगुप्सा विटालितोऽहमाम्यामिति, मन्त्रिणा चित्तसमाध्यर्थं प्रशंसितो राजा, धन्यस्त्वं यो बालब्रह्मचारिभिः सह युक्त इत्यादिना, ततो वन्दित्वा मुत्कलितौ क्षुल्लो, मन्त्रिणा रात्रौ समेत्य सूरय उपालब्धास्तैः स एवोपलब्धो, यथा-त्वमेवात्रापराधकारी यनिर्वाहं क्षुल्लयोर्न करोषीति १, स प्राह-मगवन्नेवमिति, क्षामिताः पादयोगित्वा सूरयः सकलसङ्घस्य यथायोग्यं चिन्ता कृता मन्त्रिणा। सूत्रं सुगमम् ।। ३५-३७ ॥ अत्र दोषानाहजे विज्जमंतदोसा ते चिय वसिकरणमाइ चुन्नेहिं । एगमणेगपओसं कुज्जा पत्थारओ वावि ।। ५०१ ॥ सुगमा, परं एकस्यानेकेषां वा साधूनामुपरि प्रद्वेषं कुर्यात्, पत्थारओ-नाशो वा भवेदिति, अपि समुच्चये ॥ ५०१ ॥ अथ " पायलेवणे (गा. ५०० ) "त्ति व्याख्यानयति - For Private & Personal Use Only चूर्णे दृष्टान्त दोषाश्च । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy