________________
Jain Education Inte
मयमाइवच्छगंपिव वणेइ आहारमाइलोभेणं । समणेसु माहणेसु य किविणाऽतिहिसाणभत्तेसु ॥४४४ मृतमातृकत्सकमिव गोपालकोऽन्यगवीति शेषः, आहारादिलो मेनात्मानं श्रमणत्राह्मणकृपणातिथिश्च भक्तेषु वनति तद्भक्तं दर्शयतीति वनीपकः ॥ ४४४ ॥ अथ श्रमणशब्दवाच्या ये तान् कथयति
निग्गंथ सक्क तास गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज्ज को अप्पं ॥ ४४५ निर्ग्रन्थाः साधवः शाक्यास्तापसा गैरुका गैरुकरञ्जितवाससः परिव्राजका आजीवका - गोशालक शिष्या इति पञ्चधा श्रमणाः, एतेषां परिवेषणे - भोजनप्रदाने सति कोऽप्याहारादिलोमेन वनति - शाक्यादि भक्तमात्मानं दर्शयति तद्भक्तगृहिणः पुरत इति गम्यम् || ४४५ ।। इह प्रायः शाक्य गैरुका गृहिगृहेषु भुञ्जाना दृश्यन्ते, अतस्तानधिकृत्याह - भुंजंति चित्तकम्मं ठिया व कारुणिय दाणरुइणो वा । अवि कामगदहे सुवि न नस्लई किं पुण जईसु ?
एते शाक्यादय एवं निश्चला भुञ्जते, यथा चित्रकर्म्मलिखिता इव, तथा परमकारुणिका एते दानरुचयश्च, अपि च कामगर्दमेष्वपि ब्राह्मणादिषु दत्तं न नश्यन्ति, किं पुनरमीषु शाक्यादिषु तस्मादेतेभ्यो दातव्यमिति ॥ ४४६ ।। अत्र दोषानाहमिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा गच्छे। चडुकारदिन्नदाणा पञ्च्चत्थिंग मा पुणो इंतु ॥४४७
शाक्यादिप्रशंसने मिथ्याच्चस्थिरीकरणं स्यात्, तथा शाक्यादिभक्तास्तद्गुणाकृष्टा आधाकम्मदि कुर्वन्ति, कदाचित् साधुवेषमपहाय तेषु शाक्यादिषु गच्छेत्, तथा लोके चटुकारिण एते जन्मान्तरेऽप्यदत्तदाना इति अवर्णवादः, यदि पुनः
For Private & Personal Use Only
वनीपकस्वरूपं
तत्करणे दोषाश्च ।
www.jainelibrary.org