________________
क्षमा
रत्नीयावचूर्युपेता
श्री
पिण्ड
निर्युक्तिः
॥ ७८ ॥
Jain Education Inte
बालमतिबलोत्प्लावनेन मज्जयति, ततः पूर्वोक्ता दोषास्तस्मान्नैषा धात्री युक्ता, इत्युक्ते गृही नूत्नधात्रीं स्फेटयित्वा चिरन्तनीमेव कुरुते, तथा " उचट्टि " इत्यादि दोषाः, एवं सर्वत्र ॥ ४२२ ॥ अथ मज्जनधात्री कथंभूतं बालं मण्डनपात्र्याः समर्पयति तदाह
अभंगिय संवाहिय उवट्टिय मजियं च तो बालं । उवणेइ मज्जधाई मंडणधाईऍ सुइदेहं ॥ ४२३ ॥
स्नेहेनाभ्यङ्गितं हस्ताभ्यां सम्बाधितं पिष्टकादिना उद्विर्तितं ततो मजितं बालं शुचीभूतदेहं कृत्वा मञ्जनधात्री मण्डनधात्र्याः समर्पयति ।। ४२३ ।। अथ मण्डनादिधात्रीत्वस्य करणाद्याह
उआइएहिं मंडेहिं ताव णं अहव णं विभूसेमि । हत्थिच्चगा व पाए क्या गलिच्चा व पाए वा ॥ ४२४ ॥ ॥
इषु-इषुकाकारमाभरणं केsपि तिलकमिति, इत्यादिविभूषणैरेनं बालकं मण्डय, अथ त्वं न प्रपारयसि तदाहं विभूषयामि इति साधोः करणं कारणं च अथ दोषानाह - हस्तयोग्यानि आभरणानि पादे कृतानि गलसत्कानि पादे कृतानि, शेषं प्रागिव सर्वम् ।। ४२४ || अथ क्रीडनघाच्या दोषाद्याह
ढड्डरसर छुन्नमुहो मउयगिरो मउयमम्मणुहावो । उल्लावणगाईहि व करेइ कारेइ वा किड्डुं ॥ ४२५
एषाऽभिनव क्रीडनात्री ढड्डूरस्वराः, ततस्तस्याः स्वरमाकर्ण्य बालो छुन्नमुखः - क्लीमुखो भवति, अथ (वा) मृदुगीर्यदि वा मृदुमन्मनो इत्यादि शेषं प्रागिव, तथा बालमुल्लापनादिभिः स्वयं क्रीडां कारयति जनन्या वा कारयति ।। ४२५ ।।
For Private & Personal Use Only
धात्रीणां
दोषाः ।
॥ ७८ ॥
www.jairtelibrary.org