________________
Jain Education
इत्युक्त्वा यदि तथा कृत्वा ददाति तर्हि न कल्पते, आरतो-भूयः पाकारम्भादर्वाक् पुनः कल्प्यं दोषाभावात्, तथा क्षेत्रेऽन्तहिर्वा काले श्वस्तनं परतरदिनभवं वा अकल्प्यमारतः कल्प्यं, अयं मावः - यतो गृहान्तर्बहिर्वा मोदकचूर्णादिकं भूय उपस्करिष्यामि कालविवक्षायां अद्य श्वः परतरे वा दिने भूयोऽपि पक्ष्यामि तत्तुभ्यं दास्यामीत्युक्ते तथैव कृत्वा चेददाति ततो न कल्पते, भूयोऽपि पाकारम्भाद् आरतः कल्पते ॥ २४९ ॥ तथैवाह -
जं जहव कथं दाहं तं कप्पइ आरओ तहा अकथं । कयपाकमणिट्ठत्ति ठियंपि जावत्तियं मोत्तुं ॥ २४२ ॥
द्रव्यं यथा वा क्षेत्रादिनिर्द्धारणेन भूयोऽपि कृतं दास्यामीत्युक्ते तचथाऽकृतं पाकारम्भादारतोऽर्वाक् कल्पते, तथा कृतं तु न कल्पते, अथ कम्मौदेशिकं कृतपाकमात्मार्थीकृतमपि यावदर्थिकं मुक्त्वा शेषमनिष्टं नानुज्ञातं तीर्थकरगण घरैः, यावदर्थिकं स्वात्मार्थीकृतं कल्पते ।। २४२ ॥ कापि
' छक्काये ' ति गाथा दृश्यते, परं सा वृत्तौ न व्याख्याता, सुगमा च, सम्बन्धश्व न कोऽपि ॥ अथ पूतिद्वारमाहपूतिश्चतुर्द्धा नामादिमेदाचत्र भेदद्वयं प्रागिव, द्रव्यभावौ चाह
पूई कम्मं दुविहं दवे भावे य होइ नायवं । दवंमि छगणधम्मिय भावंमि य बायरं सुमं ॥ २४३ ॥ द्रव्ये भावे च द्विधा पूतिकर्म्म ज्ञातव्यं भवति, द्रव्ये लगणधार्मिको- गोमयोपलक्षितो धार्मिको दृष्टान्तः, भावे पुनर्द्विधा १ मुद्रितादर्श नैषा गाथा न च टीका, अतो न सम्पूर्णा लिखिता ।
For Private & Personal Use Only
३ पूतिदोषे तद्भेदौ ।
www.jainelibrary.org