SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ क्षमा रत्नीयावचूर्युपेता श्री पिण्ड निर्युक्तिः । ॥ ४४ ॥ Jain Education Int सा तु गृहनायिका योषित् प्रतिदिवसं यावत् प्रमाणं भक्तं पच्यते, तावत् प्रमाण एव भक्ते पक्तुमारभ्यमाने पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समागमिष्यति तस्य भिक्षार्थ अविशेषितमेव, एतावत् स्वार्थमेतावद्भिक्षादानार्थमिति विभागरहितमेव तन्दुलानधिकतरान् प्रक्षिपति, एतदोघौदेशिकम् ।। २२१ ।। अत्र पूर्वपक्षं परस्याशङ्कयोत्तरमाहछमत्थोद्दे कहं वियाणाइ चोइए भणइ । उवउत्तो गुरु एवं गिहत्थसद्दाइचिट्ठाए ॥ २२२ ॥ छद्मस्थः कथमोघौदेशिकं पूर्वोक्तस्वरूपं विजानाति १, एवं प्रेरितो गुरुर्भणति, एवं वक्ष्यमाणन्यायेन गृहस्थशब्दादिचेष्टायामुपयुक्तो दत्तावधानो जानाति ॥ २२२ ॥ एतदेवाह - दिन्नाउ ताउ पंचवि रेहाउ करेइ देइ व गणंति । देहि इओ माय इओ अवणेह य एत्तिया भिक्खा | २२३ ॥ यदि पूर्वसङ्कल्पः कृतो भवति तदैवं गृहस्थानां चेष्टाविशेषा भवेयुः, यथा - क्वापि गृहे साधोः शृण्वत एव भर्त्रा पृष्टा पत्नी कथयति, ताः प्रतिदिवसं कल्पिताः पञ्चाऽपि भिक्षा अन्यभिक्षाचरेभ्यो दत्ताः, यद्वा भिक्षां ददती दत्तभक्षा परि गणनाय भित्त्यादिषु रेखाः करोति, अथ प्रथमेयं द्वितीयेयं भिक्षेत्येवं गणयन्ती ददाति, अथवा काचित् कस्या अपि सन्मुखमेवं भणन्ति, यथा अस्मादुद्दिष्टदत्तिसत्कपिट कादेर्मध्याद्देहि मा इत इति, अथवा काचित् कां प्रत्याह अपनय - पृथक् कुरु विवक्षितस्थानादेतावतीर्भिक्षा भिक्षाचरदानयोग्या इति, तत इत्यादि प्रकारैरोघौदेशिकं ज्ञातुं शक्यते, ज्ञात्वा च परिह्रियते ॥ २२३ ॥ एतच्चोपयुक्तत्वेनैव ज्ञायते इति सामान्यत उपयुक्ततां वक्ति For Private & Personal Use Only ओधौदेशिक परिक्षा । ॥ ४४ ॥ www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy