SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Jain Education I समानदर्शना वा, एवमेव ज्ञानतः साधम्मिका न दर्शनतः इत्येवंरूपो द्वितीयो भङ्गो ज्ञेयः । यतयः श्रावकाश्च तत्रापि केवलं विभिन्नदर्शनाः समानज्ञाना इति ।। १५३ ।। दर्शनचरणचतुर्भङ्गिकाद्य मङ्गद्वयमाह - दंसणचरणे पढमो सावग जइणो य बीयभंगोउ । जइणो विसरिसदंसी दंसे य अभिगहे वोच्छं ॥ १५४ ॥ दर्शनचारित्रे दर्शनतः साधम्मिका न चरणत इत्ययं प्रथमो भङ्गः समानदर्शनाः श्रावका विसदृशचरणा पतयश्च द्वितीयो मङ्गश्चरणतः साधम्मिका न दर्शनत इति, तत्र विसदृशदर्शनाः समानचारित्रा यतय इति, दर्शने अभिग्रहे चाद्यमङ्गद्वयं वक्ष्ये ॥ १५४ ॥ तदेवाह - सावग जइ वीसऽभिग्गह पढमो बीओ य भावणा चेवं । नाणेणऽवि नेज्जेवं एचो चरणेण वोच्छामि ॥ १५५ समानदर्शना विष्वगभिग्रहा - विभिन्नाभिग्रहाः श्रावका यतयश्च दर्शनतः साधम्मिका नाभिग्रहत इति प्रथमो मङ्गः, द्वितीयोऽपि भङ्गोऽभिग्रहतः साधम्मिका न दर्शनत इति तत्रापि यतिश्राद्धा एव परं विभिन्नदर्शनाः समानाभिग्रहा ज्ञेया इति, दर्शनभावनाचतुर्भङ्गिकाद्यभङ्गद्वयं सूचयति — यथा दर्शनेन अभिग्रह उदाहृतः, एवं भावनापि वक्तव्या । यथा दर्शनतः साधर्मिका न भावनातो, विसदृशभावनाः समानदर्शनाः श्रावका यतयश्चेत्यादि, अथ ज्ञानस्य चारित्रादिभिः सह चतुर्भङ्गिका प्ररूपणमाह यथा दर्शनेन सह चतस्रश्चतुर्भङ्गिका उक्तास्तथा ज्ञानेनापि सह चारित्रादीनि पदान्यधिकृत्य तिस्रश्चतुर्भङ्गिका ज्ञेयाः । For Private & Personal Use Only भिन्नभिन्नचतुमङ्गिकाः । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy