SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte इह हि श्रावकेण यथा मिथ्यात्वपरिहारेण सम्यक्त्वमूलः संलेखना पर्यवसानोऽयं धर्मोऽनुष्ठेयः तथा चतुर्मा| सकादिकालमर्यादा ग्राहया विविधा अभिग्रहाः, ते च चतुर्विधाः, तद्यथा - द्रव्यतः १ क्षेत्रतः २ कालतो ३ भावतश्च ४, तत्र द्रव्यतो व्ययनीयं वर्षमध्ये धर्मार्थे निजप्राप्त्यनुसारेण द्रविणादि, वितरणीयं साधुभ्यो मुखवस्त्रिकादि, करणीयं ग्लानादीनामौषधादिदानसारं प्रतिजागरणं, विधापनीयं साधर्मिकजनस्य यथाशक्ति वात्सल्यं, विश्राणनीयं कृतलोचस्य साधोर्विशेषेण गुडघृतादि, पूजनीयान्यष्टमङ्गलकादिपूजया जिनबिम्बपुस्तकादीनीत्यादि, क्षेत्रतः प्रमार्जनीयं चैत्यभवनादि, चिन्तनीयं जिनगृहसमागतैश्चैत्यसदने कृताकृतादिकर्म, विधेया तदीयग्रामक्षेत्रादिचिन्ते | त्यादि, कालतो द्रष्टव्यमष्टम्यादितिथिषु चैत्यालये जिनबिम्बारा त्रिकरनात्रादि समाचरणीयमेक भक्तनिर्विक्रुतिकादि विशेषतपःकर्म, तथा प्रत्यूषसमये निद्रामोक्षसमकालमेव पठनीयोऽर्हदादिनमस्कारोऽनुस्मर्त्तव्य आत्मादिः - कोऽहं ' क सुप्तः ? कौ मम मातापितरौ ? को वा धर्माचार्यः ? इत्यादिरूपेण, विलोकनीया शरीरचिन्तादिद्रव्यावश्यक पुरस्सरं गृहप्रतिमा, पूजनीया यथासंभवं द्रव्योपचारेण भावोपचारेण च, विधिना चैत्यालयगमनादिनियमश्च कार्य इत्यादि, भोजनवेलायां चासन्नजिनभवनाभावेऽपि निश्चयसारं गृहवर्त्तिन्या जिनप्रतिमायाः सम्पादनीया सदा नैवेद्यादि For Private & Personal Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy