SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ‘कृत्वा विधाय, कं ?-'ग्रन्थिभेदं ' ग्रन्थिः-कर्मजनितो घनरागद्दषपरिणामः, यथोक्तम्-" गंठित्ति सुदु.. भेओ कक्खडघणरूढगंठि व्व । जीवरस कम्मजणिओ घणरागदोसपरिणामो ॥१॥” तस्य भेदो-विदारणं ग्रन्थिभेदस्तं कृत्वा, किं ?-'लभन्ते' प्राप्नुवन्ति 'सम्यक्त्ववररत्नं ' सम्यक्त्वमेव वरं-प्रधानं चिन्तामण्यादिरत्नापेक्षया तच्च तद्रत्नं च सम्यक्त्ववररत्नमिति तुर्यपादेन सम्बन्धः, तथा चोक्तम्-" सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥ १॥" के ? इत्याह-'प्राणिनः' प्राणा-इन्द्रियादयः, यथोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यपदायुः । प्राणा दशैते भगवद्भिरिष्टाः, " इति. ते विद्यन्ते येषां ते प्राणिनो-जीवाः किं सर्वेऽपि ? नेत्याह केचित् ' स्तोकाः, न सर्वेऽपि, कथं ?- सहसम्मुइयाइ । त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या सङ्गता मतिः । सा सहसंमतिः कोऽर्थः?-परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, केचिदित्यं लभन्ते, अन्ये कथमित्याहपरव्याकरणात् । परोपदेशाद् ‘अन्ये' अपरे कृत्वा ग्रन्थिभेदं लभन्ते सम्यक्त्ववररत्नमिति पूर्वसम्बन्धः इति गाथाऽक्षरार्थः ॥ भावार्थस्तु सप्ततिकाबृहच्चूर्णितोचसयः, स्थानाशून्यार्थं तु किञ्चिल्लिख्यते-इह कश्चिदनादिमि Jain Education Inted For Private Personal Use Only w.ainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy