________________
Jain Education Inte
विभूतिरभूजिनेन्द !, धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा, तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥ श्रयोतन्मदाविलविलोलकपोलमूलमन्त्तभ्रमद्धमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकर भूषितभूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ कल्पान्तकालपत्रनोद्धतवह्निकल्पं, दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ रक्तेक्षणं समदकोकिलकण्ठनीलं, क्रोधोद्धतं फणिनमुत्कणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्कस्त्वन्नामनागदमनी हृदि यस्य पुंसः ||३७|| वल्गतुरङ्गगजगर्जितभीमनादमा बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखाऽपविद्धं, स्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ३८ ॥ कुन्ताग्रभिन्नगजशोणितवारिवाह वे गावतारतरणातुरयोधभीमे । युद्धे जयं विजित दुर्जयजेय पक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥ अम्भोनिधौ क्षुभितभीषणनकचक्रपाठीनपीठभयदोल्बणवाडवानौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः
For Private & Personal Use Only
www.jainelibrary.org