________________
श्रीपञ्च
वस्तुके.
॥ ३१ ॥
गेहादीनां - गृहधनादीनामभावे या वेदना तद्रूपमस्याः - सङ्किष्टायाः वेदनायाः अथेष्टम् - अभ्युपगतं भवता, एतदाशङ्कयाहयुज्यते एतद्रूपं तस्याः 'तदभिष्वङ्गे' गेहादिष्वभिलाषे सति, 'तदभावे 'अभिष्वङ्गाभावे सर्वथा - एकान्तेनायुक्तं तद्रूपमस्याः, निरभिष्वङ्गस्य सक्लेशायोगादिति गाथार्थः ॥ ८७ ॥ एतदेव समर्थयति -
जो एत्थ अभिसंगो संतासंतेसु पावहेउति । अट्टज्झाणविअप्पो स इमीऍ संगओ रूवं ॥ १८८ ॥ योsa - लोकेऽभिष्वङ्गो-मूर्च्छालक्षणः सदसत्सु गेहादिषु पापहेतुरिति- पापकारणमार्त्तध्यान विकल्पः - अशुभध्यानभेदोऽभिष्वङ्गः स खलु अस्याः - सङ्किष्टाया वेदनायाः सङ्गतो रूपम् - उचितस्वरूपमिति गाथार्थः ॥ ८८ ॥ ततः किमित्याह -
एसो अ जायइ दृढं संतेसुवि अकुसलाणुबंधाओ । पुण्णाओ ता तंपि नेअं परमत्थओ पावं ॥ १८९ ॥ एष च - अभिष्वङ्गः जायते दृढम् अत्यर्थं सत्स्वपि गेहादिष्विति गम्यते, कुत इत्याह- अकुशलानुबन्धिनो - मिथ्यानुष्ठानोपात्तात् पुण्याद्, यस्मादेवं तत्-तस्मात्तदपि - अकुशलानुबन्धि पुण्यं ज्ञेयं परमार्थतः पापं, सङ्कक्लेशहेतुत्वादिति गाथार्थः ॥ ८९ ॥
तथा च
कइया सिज्झइ दुग्गं को वामो मज्झ वट्टए कह वा । जायं इमंति चिंता पावा पावस्स य निदाणं ॥ १९० . कदा सिध्यति दुर्ग - बलदेवपुरादि, को वामः - प्रतिकूलो मे नरपतिर्वर्त्तते, कथं वा जातमिदम् - अस्य वामत्वं इतिएवंभूता चिन्ता पापा सङ्किष्टार्त्तध्यानत्वात् पापस्य च निदानं - कारणम्, आर्त्तध्यानत्वादेवेति गाथार्थः ॥ ९० ॥
Jain Education International
For Private & Personal Use Only
*
गृहत्यागस्य
पापत्वनि
रासः
॥ ३१ ॥
www.jainelibrary.org