SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Jain Educati द्रव्यस्तव भावस्तव रूपमेतद्-अनन्तरोक्तमिह भवति द्रष्टव्यं किम्भूतमित्याह - अन्योऽन्यसमनुविद्धं, न केवलं, निश्चयतो भणितविषयमेवेति गाथार्थः ॥ ९ ॥ यतेरपि द्रव्यस्तवभेदो, लेशः, अनुमोदनेनास्त्येव द्रव्यस्तवस्य, एतच्चात्र ज्ञेयमनुमोदनमेवं शु(सिद्धं तन्त्रयुक्त्या वक्ष्यमाणयेति गाथार्थः ॥१०॥ 'तन्त्रे' सिद्धान्ते वन्दनायां, पूजनसत्कारहेतुः - एतदर्थमित्यर्थः, कायोत्सर्गे यतेरपि निर्दिष्टः, 'पूयणवत्तियाए सक्कारवत्तियाए 'त्ति वचनात् तौ पुनः पूजनसत्कारौ द्रव्यस्तवस्वरूपौ नान्यरूपाविति गाथार्थः ॥ ११ ॥ एतदेवाह - माल्यादिभिः पूजा, तथा सत्कारः प्रवरवस्त्रालङ्कारादिभिः, अन्ये विपर्ययः इह-प्रवचने, वस्त्रादिभिः (पूजा माल्यादिभिः) सत्कार इति व्याचक्षते, सर्वथा द्विधापि, यथाऽस्तु तथाऽस्तु, द्रव्यस्तवोऽत्राभिधेय इति गाथार्थः ॥ १२ ॥ तन्त्र एव युक्त्यन्तरमाह-समवसरणे बल्यादि द्रव्यस्तवाङ्गं, न चेह यद् 'भगवताऽपि' तीर्थकरेण प्रतिषिद्धं, तदेषोऽत्र द्रव्यस्तवोऽनुज्ञातः उचितेभ्यः प्राणिभ्यो गम्यते तेन भगवतेति गाथार्थः ॥ १३॥ न च भगवाननुजानाति 'योगं' व्यापारं मोक्षविगुणं कदाचिदपि, मोहाभावात् नच तदनुगुणोऽप्यसौ योगः न बहुमतो भवत्यन्येषां, किन्तु बहुमत | एवेति गाथार्थः ॥ १४ ॥ य एव भावलेशो बल्यादौ क्रियमाणे स एव च भगवतस्तीर्थकरस्य बहुमत इत्याशङ्कयाह - नासौ| भावलेशो विनेतरेण-द्रव्यस्तं वेनेत्यर्थतः सोऽपि - द्रव्यस्तव एवमेव-अनुमत इति गाथार्थः ॥ १५ ॥ एतदेवाह - कार्यमिच्छताऽनन्तरं - मोक्षफलकारि कारणमपीष्टमेव भवति, कथमित्याह — यथाऽऽहारजां तृप्तिमिच्छता इहलोके आहार इष्ट | इति गाथार्थः ॥ १६ ॥ भवनादावपि विधिमाह - जिनभवणकारणाद्यपि द्रव्यस्तवरूपं भरतादीनां श्रावकाणां न वारितं ational For Private & Personal Use Only www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy